________________
SAMBODHI
120
K. V. MEHTA वा समाम्नातो भगवता वादिदेव-सूरिणा पूज्यपादेन हेमचन्द्रसूरिणा चेत्यत्र जैनप्रमाणमीमांसायामुपमानप्रमाणत्वेन स्वीकृत्य तादृशस्योपमान-प्रमाणस्य विभावना तावद् वादिदेवसूरिप्रोक्ता हेमचन्द्राचार्यसूरिप्रोक्ताऽत्यन्तेन संक्षेपेणात्रप्रस्तूयते ॥ __ हेमचन्द्राचार्यस्तु,प्रमाणमीमांसायाम् “अथप्रमाणमीमांसा" १.१.१॥इत्यनेनसूत्रेणप्रमाणमीमांसामारभते। स्वोपज्ञवृत्त्यां हेमचन्द्राचार्यःप्रमाणस्य सामान्यलक्षणमाहेत्युक्त्वा, “सम्यगर्थ-निर्णयः प्रमाणम्"॥१.१.२॥इत्येनेन सूत्रेणप्रमाणस्य सामान्यलक्षणमभिदधाति। ___स्वोपज्ञवृत्त्यां प्रमाणसामान्यलक्षणप्रवाचकस्य वाक्यस्य पदानां लक्षणघटकीभूतानां पदकृत्यं लक्ष्यलक्षणात्मकं प्रतिपाद्यलक्षणार्थमुपस्थापयति । तद्यथा :- “प्रमाणमितिलक्ष्यनिर्देशः । शेष लक्षणम् । प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थः" अयं वृत्तिसन्दर्भः स्वयमेव निगदव्याख्यनत्वात् न तदिह प्रतन्यते। ___ एवं लक्षणार्थं व्युत्पाद्य ज्ञानात्मकं प्रमाणं तस्य विशेषलक्षणात्मना विभजते तत्रभवान् हेमचन्द्राचार्यः। “प्रत्यक्षं परोक्षंच"॥ १.१.१०॥स्वोपज्ञवृत्तिरूपे भाष्ये, इन्द्रियजमानसात्मसंवेदनयोगिज्ञानानां चतुर्णां प्रत्यक्षेण प्रमात्मकेन प्रमाणेन संग्रहं करोति । स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षेण संग्रहमभिजानीते । तद्यथा “तत्र यथा इन्द्रियजमानसात्मसंवेदनयोगिज्ञानानां प्रत्यक्षेण सङग्रहस्तथा स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षेण सङग्रहः" ॥ १.१. १० उपरि. स्वो. वृ.॥ __ प्रमाणनयतत्त्वालोके वादिदेवसूरिणाऽपि प्रायः, ज्ञानात्मकस्य प्रत्यक्षपरोक्षादिभेदप्रत्यभिज्ञादिप्रभेदभिन्नस्य प्रमाणस्य हेमचन्द्राचार्यसदृशी प्रमाणमीमांसा कृता विद्योतते, केवलं प्रत्यक्षप्रमाणमधिकृत्य तत्र हेमचन्द्रात् किञ्चित् पृथक् पर्यालोचना दरीदृश्यते । प्रमाणस्य तादृशभिन्नदर्शनसंवलितं प्रतिपादनं तावत् प्रमाणनयतत्त्वालोकस्यानेन सूत्रसन्दर्भेण, तस्य च रत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकायां टीकायां संस्थितेन निगदव्याख्यानस्वरूपेणाधोलिखितेन वाक्यसन्दर्भेण तावत् प्रस्तूयते । तद्यथा . प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥ ॥ प्र.न.तत्त्वालोकः १.१ ॥ प्रकर्षेण संशयाद्यभावस्वभावेन मीयते परिच्छिद्यते वस्तु येन तत् प्रमाणम् ॥ (प्र.न. तत्त्वा. १.१. उपरि रत्ना. ॥) “स्वपरव्यवसायिज्ञानं प्रमाणम्" ॥ प्र.न.तत्त्व. 1.2 ॥ "स्वमात्मज्ञानस्य स्वरूपं । स्वस्मादन्य अर्थ इति यावत् । तौ विशेषण यथावस्थितस्वरूपेण अवस्यति निश्चिनोतीत्येवंशीलं यत् तत् स्वरूपव्यवसायि ॥ तद्विभेदं प्रत्यक्षं परोक्षञ्च ॥ प्र.न.त. 2.1 ।। ___ अक्षमिन्द्रियं प्रतिगत मिन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः ॥ (प्र.न.त. १.२.१ उपरि, रत्नकराव. ॥) "स्पष्टं प्रत्यक्षम्" ॥ प्र.न.त. 2.2 ।। प्रबलतराज्ञानावरणवीर्यान्तराययोः क्षेपोपशमात् क्षेपाद् वा स्पष्टताविशिष्टं वैशद्यास्पदीभूतं यत तत् प्रत्यक्षं प्रत्येयम् ॥ (॥ प्र.न.त. २.२ उपरि, रत्नाकरावतारिका ।)