________________
121
Vol. XXIII, 2000 ॥ जैनप्रमाणमीमांसायामुपमानप्रमाणस्य विभावना ॥ ॥ अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् । ॥ प्र.न.त. २.३ ॥ ॥ तद् द्विप्रकाशकं सांव्यवहारिक पारमार्थिकं च ॥ प्र.न.त. 2.4 ।। ___संव्यवहारो बाधारहितप्रवृत्तिनिवृत्ती प्रयोजनमस्येति सांव्यवहारिकम् । बाह्येन्द्रियसामग्रीसापेक्षत्वादपारमार्थिकम् । अस्मदादिप्रत्यक्षभित्यर्थः । परमार्थे भवं पारमार्थिक मुख्यम् । आत्मसन्निधिमात्रापेक्षम् । अवध्यादिप्रत्यक्षमित्यर्थः।
तत्राद्यं द्विविधमिन्द्रिय निबन्धनमनिन्द्रियनिबन्धनं च (प्र.न.त. 2.4) प्रत्यक्षानन्तरं परोक्षं लक्षयन्ति । (रत्नाकरावताका.पृ. १॥) 'अस्पष्टं परोक्षम्' ।। प्र.न.त. 3.1 ॥ प्राक्सूत्रितस्पष्टताभावभ्राजिष्णु यत् प्रमाणं तत् परोक्षं लक्षितव्यम् । अथैतत् प्रकारतः प्रकटयन्ति स्मरणप्रत्यभिज्ञानतर्वानुमान्तगमभेदतस्तत् पञ्चप्रकारम् ।। (प्र.न.त. 3.2)
स्मृतिं लक्षयति सूत्रकारः । तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् ॥ (प्र.न.त. 3.3) तत्रेति प्राक्तनेभ्यः संस्कारप्रबोधसंभूतत्वादिना गुणेन स्मरणं निर्धारयन्ति । संस्कारस्यात्मशक्तिविशेषस्य प्रबोधात् फलदानाभिमुख्यलक्षणात्संभूतमुत्पन्नमिति कारणनिरूपणम् । अनुभूतः प्रमाणमात्रेण परिच्छिन्नोऽर्थश्चेतनाचेतनरूपो विषयो यस्येति विषयव्यावर्णनम् । तद्' इत्याकारं तद् इत्युल्लेखक्त् । 'तद्' इत्युल्लेखवत्ता चास्य योग्यतापेक्षयाऽऽख्यायि । यावता ‘स्मरसि चैत्र ! कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामहे' इत्यादि स्मरणे तच्छब्दोल्लेखो नोपलक्ष्यते, किन्त्विदं स्मरणं “तेषु कश्मीरेषु” इति ता द्राक्षा' इति । तच्छब्दोल्लेखमहत्येव । न चैवं प्रत्यभिज्ञानेऽपि तत्प्रसङगः । तस्य “स एवायम्" इत्युल्लेखशेखरत्वात् । इति स्वरूपप्रतिपादनम् ॥ (प्र.न.त. भा. २.३.३ उपरि रत्नाकरावतारिका ।)
___ उपर्युक्तेन प्रमाणतत्त्वालोकसन्दर्भेण तस्य च रत्नाकरावतारिकया वृत्त्या निगदव्याख्यानिरूपेण समुपलभ्यते यत् तत्शब्दोल्लेखवत् प्रमाणं स्मृति : ‘स एवायमितिशब्दोल्लेखवत् प्रमाणं प्रत्यभिज्ञानप्रमाणमिति । एवं जैनप्रमाणनिरूपणे स्मृतिप्रत्यभिज्ञानप्रमाणयोः पृथविषयता, तयोर्द्वयोरपि प्रमाणत्वेन कृता प्रस्थापना चावलोक्यते । वैदिकदर्शने स्मृतेः प्रत्यभिज्ञायाश्च प्रमाणत्वेन कृता प्रतिपादना नैव समुपलभ्यते। तत्र स्मृतेरनुभवात्मकाज्ज्ञानादितरज्ञानप्रकारत्वेनैव प्रतिपादना कृता दरीदृश्यते । प्रत्यभिज्ञानस्याऽपि विशिष्टप्रतीतिनिरूपात्मकज्ञानस्य प्रकारत्वेनोपपादना कृतेति स्पष्टतया दरीदृश्यते । तत्तीर्थकरबिम्बम् ॥ प्र.न.त. 3.4। तदिति यत् प्राक् प्रत्यक्षीकृततम्, स्मृतं, प्रत्यभिज्ञातं, वितर्कितम्, अनुमितं, श्रुतं वा भगवतस्तीर्थकृतो बिम्ब प्रतिकृतिः तस्य पराभर्शः इत्येवं प्रकारं तच्छब्दपरामृष्टं यद्विज्ञानं तत् सर्वं स्मरणमित्यर्थः" ॥ (रत्नाकरावतारिका प्र.न.त. 3.4 उपरि, पृ. ३ ॥)
एवं स्मृतेः प्रमाणस्य निदर्शनं प्रस्तूय, वादिदेवसूरिः सूत्रेण रत्नाकरावतारटीकायाः प्रणेता रत्नप्रभाचार्यो वृत्त्या, च प्रत्यभिज्ञालक्षणं सूत्रयति, विशदयति च यथासंख्यमिति । प्रत्यभिज्ञानप्रमाणनिरूपणानन्तरं