________________
SAMBODHI
वैदिकन्यायदर्शनस्य, पूर्वमीमांसादर्शनस्य, वेदान्तदर्शनस्यचोपमानप्रमाणस्य प्रत्यभिज्ञानरूपे परोक्षेज्ञानात्मके प्रमाणेऽन्तर्भावं कुर्वन्ति सूत्रकारा वृत्तिकाराश्च । एवं जैनप्रमाणमीमांसायामुपमानप्रमाणस्य स्वातन्त्र्येणोपपादनात्मकं, प्रस्थापनात्कं निरूपणं नास्तीतिसर्वथाऽऽआकलनीयं सुधीभिरिति दिक् ।
122
K. V. MEHTA
हेमचन्द्राचार्येण प्रमाणमीमांसायां प्रथमाऽध्याये प्रस्तावनायामेव प्रतिज्ञातं स्वोपज्ञवृत्त्यां, यत् “एवं परोक्षस्योपमानस्य प्रत्यभिज्ञाने, अर्थापत्तेरनुमानेऽन्तर्भावोऽभिधास्यते” ॥ ( हेमचन्द्रः : प्र.मी. १.१. १२ उपरि, स्वोपज्ञवृत्तिः) ॥
उपमानप्रमाणस्य प्रत्यभिज्ञानेऽन्तर्भावनप्रक्रियां वादिदेवसूरिप्रोक्तां रत्नप्रभसूरिविशदीकृतां च तावत् प्रथमं प्रस्तूयते सूत्रकारवृत्तिकारवचनसन्दर्भेण । प्रत्यभिज्ञानलक्षणं तावत् सूत्रकारः सू अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ प्र.न.त. ३.५ ॥
उपर्युक्तं प्रत्यभिज्ञानलक्षणं सूत्रकारप्रोक्तं रत्नप्रभाचार्यः स्वस्य रत्नाकरावतारिकाऽभिधायां टीकायामधोलिखितरीत्या विरादीकरोति । यथा अनुभवश्च प्रमाणार्पितः प्रतीतिः स्मृतिश्चानन्तरोक्तैव, ते हेतुर्यस्येति कारणोपदेशः । तिर्यक्सामान्यं च गवादिषु गोत्वादि स्वरूपसदृशपरिणामात्मकम् । ऊर्ध्वतासामान्यं च परापरविवर्त व्यापिमृत्स्नादि द्रव्यं एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धर्मस्तोमस्य स तिर्यगूर्ध्वतासामान्यादिर्गोचरो यस्येति विषयाख्यानम् । सङ्कलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमात्मा स्वभावो यस्येति स्वरूपनिरूपणम् ॥ (प्र.न.त. ३.५ उपरि रत्नाकराव ) ॥
-
एवमत्र सूत्रकारप्रोक्तं प्रत्यभिज्ञानसंज्ञकं प्रमाणं लध्वीटीकायां रत्नप्रभाचार्येण त्रिधा विभज्य विशदीकृतं विभाति । तत्र प्रत्यभिज्ञानस्य कारणं, अनुभवः स्मृतिश्चेत्युक्तम् । गोपिण्डादिषु गोत्वरूपं तिर्यक्सामान्यं, घटादिद्रव्याणां कपालकपालिकादिपूर्वापरपर्यायेषु व्याप्तं मृदादिद्रव्यरूपमूर्ध्वतासामान्यं चात्र प्रत्यभिज्ञानस्य विषयत्वरूपेण व्याख्यातम् । प्रत्यभिज्ञानस्य स्वरूपमत्र सङ्कलनत्वेनक्तिमिति । विवक्षितधर्माणां पूर्वापरत्वेन द्रव्येषु एकत्र मीलनं संकलनत्वेनात्राऽभिधीयते ।
-
स
प्रत्यभिज्ञानस्योदाहरणानि प्रस्तौति सूत्रकारः । यथा “ तज्जातीय एवायं गोपिण्ड; गोसदृशो गवयः, एवाऽयं जिनदत्त इत्यादि ॥ प्र.न.त. ३.६ ॥ उपर्युक्तेषु प्रत्यभिज्ञानस्योदाहरणे प्रथमोदाहरणं तिर्यक्सामान्यस्योदाहरणामितिवृत्तिकारो निर्दिशति । द्वितीयमपि तिर्यक्सामान्यस्यैव निदर्शनं वर्तते, किन्तु तत् “गोसदृशो गवयः” इत्योदाहरणं नैयायिक - कदाग्रहनिग्रहार्थमुक्तमितिवृत्तिकाराः कथयन्ति । " स एवायं जिनदत्तः” इत्युदाहरणं वैदिकदर्शनान्तर्गते न्यायादिदर्शने निरूपितस्य प्रत्यभिज्ञानारूपस्य ज्ञानस्योदाहरणसदृशं वर्तते । तद्यथा :- " स एवाऽयं देवदत" इति ।
वैदिकदर्शनान्तर्गते न्यायदर्शने इदं प्रथमतयोपमानप्रमाणस्य निरूपणा, पृथक् प्रमाणत्वेन समुपलभ्यते । तदुपमानप्रमाणस्य स्वतन्त्रविभावनामपलाप्य तमुपमानप्रमाणस्य प्रत्यभिज्ञानप्रमाणेऽन्तर्भावंकर्तुं कामयमानो