Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 128
________________ 121 Vol. XXIII, 2000 ॥ जैनप्रमाणमीमांसायामुपमानप्रमाणस्य विभावना ॥ ॥ अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् । ॥ प्र.न.त. २.३ ॥ ॥ तद् द्विप्रकाशकं सांव्यवहारिक पारमार्थिकं च ॥ प्र.न.त. 2.4 ।। ___संव्यवहारो बाधारहितप्रवृत्तिनिवृत्ती प्रयोजनमस्येति सांव्यवहारिकम् । बाह्येन्द्रियसामग्रीसापेक्षत्वादपारमार्थिकम् । अस्मदादिप्रत्यक्षभित्यर्थः । परमार्थे भवं पारमार्थिक मुख्यम् । आत्मसन्निधिमात्रापेक्षम् । अवध्यादिप्रत्यक्षमित्यर्थः। तत्राद्यं द्विविधमिन्द्रिय निबन्धनमनिन्द्रियनिबन्धनं च (प्र.न.त. 2.4) प्रत्यक्षानन्तरं परोक्षं लक्षयन्ति । (रत्नाकरावताका.पृ. १॥) 'अस्पष्टं परोक्षम्' ।। प्र.न.त. 3.1 ॥ प्राक्सूत्रितस्पष्टताभावभ्राजिष्णु यत् प्रमाणं तत् परोक्षं लक्षितव्यम् । अथैतत् प्रकारतः प्रकटयन्ति स्मरणप्रत्यभिज्ञानतर्वानुमान्तगमभेदतस्तत् पञ्चप्रकारम् ।। (प्र.न.त. 3.2) स्मृतिं लक्षयति सूत्रकारः । तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् ॥ (प्र.न.त. 3.3) तत्रेति प्राक्तनेभ्यः संस्कारप्रबोधसंभूतत्वादिना गुणेन स्मरणं निर्धारयन्ति । संस्कारस्यात्मशक्तिविशेषस्य प्रबोधात् फलदानाभिमुख्यलक्षणात्संभूतमुत्पन्नमिति कारणनिरूपणम् । अनुभूतः प्रमाणमात्रेण परिच्छिन्नोऽर्थश्चेतनाचेतनरूपो विषयो यस्येति विषयव्यावर्णनम् । तद्' इत्याकारं तद् इत्युल्लेखक्त् । 'तद्' इत्युल्लेखवत्ता चास्य योग्यतापेक्षयाऽऽख्यायि । यावता ‘स्मरसि चैत्र ! कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामहे' इत्यादि स्मरणे तच्छब्दोल्लेखो नोपलक्ष्यते, किन्त्विदं स्मरणं “तेषु कश्मीरेषु” इति ता द्राक्षा' इति । तच्छब्दोल्लेखमहत्येव । न चैवं प्रत्यभिज्ञानेऽपि तत्प्रसङगः । तस्य “स एवायम्" इत्युल्लेखशेखरत्वात् । इति स्वरूपप्रतिपादनम् ॥ (प्र.न.त. भा. २.३.३ उपरि रत्नाकरावतारिका ।) ___ उपर्युक्तेन प्रमाणतत्त्वालोकसन्दर्भेण तस्य च रत्नाकरावतारिकया वृत्त्या निगदव्याख्यानिरूपेण समुपलभ्यते यत् तत्शब्दोल्लेखवत् प्रमाणं स्मृति : ‘स एवायमितिशब्दोल्लेखवत् प्रमाणं प्रत्यभिज्ञानप्रमाणमिति । एवं जैनप्रमाणनिरूपणे स्मृतिप्रत्यभिज्ञानप्रमाणयोः पृथविषयता, तयोर्द्वयोरपि प्रमाणत्वेन कृता प्रस्थापना चावलोक्यते । वैदिकदर्शने स्मृतेः प्रत्यभिज्ञायाश्च प्रमाणत्वेन कृता प्रतिपादना नैव समुपलभ्यते। तत्र स्मृतेरनुभवात्मकाज्ज्ञानादितरज्ञानप्रकारत्वेनैव प्रतिपादना कृता दरीदृश्यते । प्रत्यभिज्ञानस्याऽपि विशिष्टप्रतीतिनिरूपात्मकज्ञानस्य प्रकारत्वेनोपपादना कृतेति स्पष्टतया दरीदृश्यते । तत्तीर्थकरबिम्बम् ॥ प्र.न.त. 3.4। तदिति यत् प्राक् प्रत्यक्षीकृततम्, स्मृतं, प्रत्यभिज्ञातं, वितर्कितम्, अनुमितं, श्रुतं वा भगवतस्तीर्थकृतो बिम्ब प्रतिकृतिः तस्य पराभर्शः इत्येवं प्रकारं तच्छब्दपरामृष्टं यद्विज्ञानं तत् सर्वं स्मरणमित्यर्थः" ॥ (रत्नाकरावतारिका प्र.न.त. 3.4 उपरि, पृ. ३ ॥) एवं स्मृतेः प्रमाणस्य निदर्शनं प्रस्तूय, वादिदेवसूरिः सूत्रेण रत्नाकरावतारटीकायाः प्रणेता रत्नप्रभाचार्यो वृत्त्या, च प्रत्यभिज्ञालक्षणं सूत्रयति, विशदयति च यथासंख्यमिति । प्रत्यभिज्ञानप्रमाणनिरूपणानन्तरं

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157