Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 133
________________ 126 K. V. MEHTA SAMBODHI वादिदेवसूरिवत् हेमचन्द्राचार्योऽपि प्रत्यभिज्ञानात्मकस्य ज्ञानस्य सङ्कलनात्मकत्वेनैव प्राधान्येन निरूपणां करोति ॥ यथा - (1) अविशदं परोक्षम् ।। प्र.मी. १.२.१ ॥ (2) स्मृतिप्रत्यभिज्ञानोहानुमानागमस्तद्विधयः॥ प्र.मी. १.२.२ ॥ (3) वासनोद्वोधहेतुका तदित्याकारा स्मृतिः ॥ प्र.मी. १.२.३ ॥ (4) दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानमिति ।। १.२.४ ॥ (A) अत्र हेमचन्द्राचार्येन 'तत्सदृशं' इत्यांशेनोपमानप्रमाणस्य प्रत्यभिज्ञायामन्तर्भावः क्रियते ॥ “तत्सदृशः गोसदृशो गवयः" ॥ (स्वोपरा.टी. ॥) इति तत्सदृश इत्यस्य प्रदत्तेनोदाहरणेन लाभो भवति ॥ (B) “तदेवेदं सामान्यनिर्देशेन नपुंसकत्वम् । स एवायं घटः सैवेयं पटी, तदेवेदं कुण्डमिति" || (स्वोपरा.टी॥) इत्यनेन वचनेन बौद्धवैदिकदर्शनसम्मतं प्रत्यभिज्ञानस्य स्वरूपं स्वाभिमते प्रत्यभिज्ञानरूपे ज्ञाने सङ्कलयति । तद्विलक्षणं' तत्प्रतियोगीत्यादिना लक्षणघटकीभूतेनांशेन प्रत्यभिज्ञानात्मकस्य ज्ञानस्य क्षेत्रविस्तारं प्रसाधयति । कृतेन तेन क्षेत्रविस्तारेणान्यदर्शनपरम्परायामवस्थितानामितरेषां प्रमाणभूतानां पदार्थानां सफलनां, प्रस्तुत एवं प्रत्यभिज्ञाने ज्ञाने याथातथ्येन जैनदार्शनिकैः कर्तुं पार्यत इति मनसि निधायेति सर्वथाऽऽकलनीयमिति दिक् । एवं द्वितीयां फलितार्थरूपां प्रस्थापनां विधाय तृतीया तावत् प्रस्तूयते । (C) वादिदेवसूरिवत् हेमचन्द्राचार्यः प्रत्यभिज्ञानात्मकस्य ज्ञानस्य लक्षणे तिर्यक्सामान्यं, ऊर्ध्वतासामान्यमित्युक्त्वा सामान्यं न द्विधा विभजति । हेमचन्द्राचार्यस्तु प्रत्यभिज्ञानलक्षणे सामान्यस्योल्लेखमपलाप्य वा विहाय तत्स्थाने 'तत्सदृशं'मित्यनेन शब्देन सादृश्यस्योल्लेखं करोति । ___ वादिदेवसूरिणतिर्यक्सामान्यमूर्ध्वसामान्येति सामान्यस्य द्विधाविभागस्तु स्वप्रोक्ते प्रत्यभिज्ञानलक्षणे कष्टकल्पनात्मकं, नैरर्थक्यात्मकञ्चेति दौषव्यमवतारयतीति तत्र तत् न प्रयोक्तव्यमिति मया सप्रश्रयं निवेद्यते । पुनश्च तिर्यक्सामन्यस्य निदर्शने तज्जातीय एवायं गोपिण्ड इत्येतस्मिन् तथा च "गोसदृशो गवय" इति उदाहरणे “ऊर्ध्वतासामान्यस्यातिव्याप्तिं निवारयितुमशक्या । एवं ऊर्ध्वतासामान्यस्पोदाहरणभूते, “स एवायं जिनदत्त" इत्येतस्मिन्नपि तिर्यक्सामान्यस्यातिव्याप्तिं निवारयितुं न पार्यत इति कृत्वाऽत्र विरम्यत अनेन शोधप्रबन्धेन ॥ इति शम् ॥ सन्दर्भग्रन्थसूची॥ (न्यायावतारः) (1) NYAYĀVATĀRA : SIDDHASENA DIVAKARA; Abhay Kumar Burman Sanskrit Book Depot, First Edition, 1981 (With NYAYAVATĀRA VIVRITI) (2) षड्दर्शनसमुच्चयः हरिभद्रसूरिः Eastern Book Linkers; Second Edition, 1986

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157