Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
________________
K. V. MEHTA
124
SAMBODHI
शक्य प्रमाणव्यवहार इति कृत्वा द्वयोस्तयोर्दाशनिकयोरुपमानप्रमाणस्योपरिप्रतिपादितेन नयेन प्रत्यभिज्ञानरूपे ज्ञानात्मके प्रमाणेऽर्न्तभावयन्ति सूत्रकारानुमोदिता नोदिता च वृत्तिकारा रत्नाकरावतारिकाकाराः ।
अत्रैवं विचार्यते यत् नैयायिकानामुपमानप्रमाणं प्रत्यभिज्ञानाऽभिधे जैनप्रमाणेऽन्तभावयितुं शक्यते न वा । तद्विचारणासौकर्याय तावदुपमानप्रमाणलक्षणं नैयायिक सम्मतं समुध्रियते । प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ न्या. सू. १.१.३ ॥ इत्यत्र नैयायिक्सम्मतं प्रमाणविभागं चतुर्धानिर्दिश्य समुद्देशक्रमेणोपमानस्य लक्षणं विदधात्यधोलिखितरीत्या । " प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्" । ॥ न्या. सू. १.१.६ ॥ तस्यैव सूत्रात्मकस्योपमानप्रमाणस्य मर्मस्फोटकमधोलिखितं भाष्यं विरचयति वात्स्यायनाचार्यः । तद्यथा । प्रज्ञातेन सामान्यतात् प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति । यथा गौरिव गवय इति । किं पुनरत्रोपमानेन क्रियते ? यदा खल्वयं गवां समानधर्मं प्रतिपद्यत तदा प्रत्यक्षस्तदर्थं प्रतिपद्यत इति ? समाख्यासम्बन्ध- प्रतिपत्तिरुपमानार्थमित्याह । यथा गौरिव गवय इत्युपमाने प्रयुक्ते गवा समानधर्ममर्थमिन्द्रियार्थसन्निकर्षादुपल-भमानोऽस्य गवयशब्दः सञ्ज्ञतिसञ्ज्ञासंञ्ज्ञिसम्बन्धं प्रतिपद्यत इति । यथामुद्गस्तथा मुद्रपर्णी, यथा माषस्तथा माषपर्णीत्युपमाने प्रयुक्ते उपमानात् सञ्ज्ञासञ्ज्ञिसम्बन्धं प्रतिपद्यमानस्तामौषधीं भैषज्यायाहरति । एवमन्योपमानस्य लोके विषयो बुभुत्सितव्य इति ॥ (न्या.सू. १.१.६ उपरि. व्या. भा. 1)
अत्र वात्स्यानमुनिना “ उपमानानि सामन्यवचनैः ' ॥ २.१. ५५ पा. स्. ॥ इति प्राणिनिसूत्रस्वारस्यमधिकृत्य, “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” (प्रा. सू. २.१.५६) इति पाणिनिसूत्रं चेत्यधिकृत्योपमानप्रमाणस्य विमर्शः कृतेति संलक्ष्यते । 'घन इव श्यामः ' घनश्यामः इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौककविग्रहे इव शब्दः प्रयुज्यते । एवं सादृश्यसम्बन्धस्य कल्पनं पाणिनिसूत्रतः परिगृह्य सूत्रकारः गौतमो मुनिः वात्स्यायनो मुनिश्च लोकविदितं व्यवहारं प्राधान्येन लक्ष्यीकृत्योपमान प्रमाणस्य लक्षणं विदधाति विशदयति च ।
-
पुनश्च " अनुभूतविषयासंप्रमोषः स्मृतिः " ( यो. स्. १. ११) इति योगसूत्रस्थास्य स्मृतिवृत्तेरत्रोपमानज्ञानस्योत्पत्तिकारणत्वमप्यत्रास्ति । न्यायदर्शनप्रोक्तं तादृशमुपमानप्रमाणं खलु याथातथ्येन प्रत्यभिज्ञानात्मके प्रतीत्यात्मके ज्ञानप्रकारेऽन्तर्भावयितुं न शक्यते, 'तत्तेदन्तावगाहिनी प्रतीतिः प्रत्यभिज्ञा' इति लक्षणलक्षितस्य प्रत्यभिज्ञानात्मकस्य प्रमाणत्वेनाऽङ्गीकारात् । तस्मिन् संज्ञासञ्ज्ञिसम्बन्धज्ञानस्यानुल्लेखनत्वाच्च। " औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध” इति जैमिनिसूत्र भाष्ये शबरमुनिनोपवर्षाचार्यस्योपमानप्रमाणस्य विभावनां समुध्रियते । तद्यथा । " उपमानं सादृश्यं, असन्निकृष्टेऽर्थे बुद्धिमुत्पादयति गवयदर्शनगोस्मरणस्य” । उपर्युक्तशबरा चार्योद्धृतमुपवर्षाचार्यवचनं पर्यालोच्य कुमारिलभट्टे श्लोकवार्तिके, " न चास्य प्रत्यभिज्ञानं पुनरुत्पद्यते वने शक्त्योरतीन्द्रियत्वेन स्मृतेरिव हि सेष्यते " ॥ ( श्लो. वा. उपमानपरिच्छेदे - १८ ॥ ) इति वदता वाच्यवाचकभावरूपात्मकयोः शक्तिद्वयोरतीन्द्रियत्वात् प्रत्यभिज्ञाने
-
Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157