Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
________________
Vol. XXIII, 2000 ॥ जैनप्रमाणमीमांसायामुपमानप्रमाणस्य विभावना ॥
125 उपमानप्रमाणस्यन्तर्भावं कर्तुं नैव युज्यत इति सुदृढं प्रतिपादितमिति ।
वेदान्तपरिभाषाया उपमानपरिच्छेद वेदान्तदर्शनसम्मतं “तत्र सादृश्यप्रमाकरणं उपमानमिति यदुपमानप्रमाणस्य लक्षणमुक्तं तत् सर्वथा न्यायदर्शनोपमानलक्षणसदृशमितीति कृत्वा न्यायदर्शनेन सहोक्तेन नयेनैव तस्याऽपि प्रत्यभिज्ञाने नान्तर्भावं कर्तुं पार्यते युज्यते चेत्यलं विस्तरेण ॥ एवमस्य शोधपत्रस्य फलितार्थरूपामेकां प्रस्थापनां कृत्वा, द्वितीयेयं प्रस्तूयते । (२)
प्रत्यभिज्ञा मानसीप्रतीति इति जयन्तभट्टेन न्यायमञ्जयाँ प्रतिपादितमिति । यथाः - "एवं पूर्वज्ञानविशेषितस्य स्तम्भादेविशेषणमति तीक्ष्णविषय इति मानसी प्रत्यभिशा (न्यायमञ्जरी - पृ. 461) जयन्तभट्टस्योपर्युक्तेन समुद्धरणपरामर्शण समुपलभ्यते यत् वैदिकदर्शने तावत् प्रत्यक्षरूपैकज्ञानात्मकता प्रत्यभिज्ञानात्मकस्य ज्ञानस्य, न तु बौद्धदर्शनसम्मता ज्ञानद्वयात्मकता प्रत्यभिज्ञानस्य वैदिकदर्शने स्वीकृतेति । बौद्धदर्शने प्रत्यभिज्ञानात्मकं नैकं ज्ञानं किन्तु, स्मरणस्य प्रत्यक्षस्य च याथातथ्येन समुच्चिता ज्ञानद्वयी एव प्रत्यभिज्ञान शब्देनाऽभिधीयते । बौद्धदर्शनस्य प्रत्यभिज्ञानस्य तदेव स्वारस्यं जयन्तभट्टाचार्योऽधोलिखिते स्ववचने प्रस्तौति । यथा - "तस्माद् द्वे एते ज्ञाने, स इति स्मरणं अयम् इत्यनुभवः" ॥ (न्यायभंजरी. पृ. ४४९ ॥)
एवं प्रत्यभिज्ञानमधिकृत्य भारतीयदर्शने त्रयः पक्षाः सम्भवन्ति।
(1) एकः पक्षो बौद्धानां पक्षत्वेनाऽभिधीयते । अस्यां बौद्धपरम्परायां प्रत्यभिज्ञानं न प्रमाणत्वेन स्वीकृतं, तस्य बौद्धदर्शनस्य क्षणिकवादिता प्रत्यभिज्ञानात्मकं ज्ञानमपि क्षणभङ्गुरयतीति दिक् । ॥ (द्रष्टव्यं-प्रमाणवा. ३. ५०१-२॥) अस्मिन्नेव बौद्धदर्शने प्रत्यभिज्ञानात्मकं ज्ञानं प्रत्यक्षस्मरणात्मकाभ्यां द्विधाभिन्नाभ्यां ज्ञानाभ्यां विभावितं विकल्पितं च वर्तते । “सोऽयं देवदत्तः" इत्यत्र 'स' इत्यात्मकोंऽशः अतीतकालत्वेन परोक्षत्वात् स्मरणज्ञानग्राह्यः । इदमंशस्तु' प्रत्यक्षज्ञानग्राह्येतिकृत्वा स्मरणप्रत्यक्षयोर्मध्येऽन्यतमस्यैकस्य ज्ञानस्य सर्वात्मनाऽविषयत्वात्तस्य प्रत्यभिज्ञाज्ञानस्य स्मरणप्रत्यक्षोभयज्ञानात्मकत्वं सम्भवतीतिवैनाशिकानामिदं मतम् ॥ “तत्तदन्तावगाहिनीप्रतीतिः प्रत्यभिज्ञेति" प्रत्यभिज्ञायास्तादृशं लक्षणं बौद्धदर्शनस्य प्रत्यभिज्ञाते एव निदर्शनेषु सङ्गमयितुं पार्यते।
(2) द्वितीयः पक्षो वैदिकदर्शनपक्षत्वेनाङ्गीक्रियते । अस्मिन् पक्षे वाचस्पतिमिश्रजयन्तभट्टादयो मूर्धाभिषिक्ता दार्शनिकाः प्रत्यभिज्ञानात्मकं ज्ञानं 'प्रत्यक्षरूपमेकज्ञानात्मकमेवेति स्वीकुर्वन्ति ।
__(3) तृतीयः पक्षस्तु जैनदर्शनत्वेनोपस्थापयितुं पार्यते । जैनमतेनाऽस्मिन् शोधपत्रे सप्रस्तरेण महतासन्दर्भेण च प्रत्यभिज्ञानात्मकस्य ज्ञानस्य कारणं, तस्य विषयं तस्य स्वरूपञ्चेति त्रिधा निरूपणेन तत्स्वारस्यरूपेण फलति यत् जैनपरम्पराऽस्मिन् ज्ञाने विविधानां ज्ञानानां सङ्कलनां कर्तुं वाञ्छति ।
Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157