Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 130
________________ Vol. XXIII, 2000 ॥ जैनप्रमाणमीमांसायामुपमानप्रमाणस्य विभावना ॥ 123 वृत्तिकारो निब्रूते यद् “अत्र तज्जातीय एवायं गोपिण्ड इत्यस्मिन् तिर्यक्सामन्योदाहरणे दर्शितेऽपि गोसदृशो गवय इति यत् तत्रैवादोहरणान्तरं तद् नैयायिककदाग्रहनिग्रहार्थम् । तस्य खलु 'गोसदृशो गवय' इति उपमानमित्यभिमानः । स चायुक्ताभिधानः । गोविसदृशो महिष इत्यस्य प्रमाणान्तरापत्तेः । अथ गवये गोदृश गवय इति विज्ञानं प्रत्यक्षकलमपि संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरूपे फले प्रमाणान्तराऽप्रसाध्ये साधकतमत्वादुपमानतां प्रतिपद्यते । तर्हि गोविसदृशे महिषे महिषोपलक्षणं प्रत्यक्षफलमपि तत्रैव तथाविधे फले साधकतमत्वात् प्रमाणान्तरमस्तु । न चैतदुपमानेऽन्तर्भावयितुं शक्यमुपमानस्य सादृश्यविषयतया व्यवस्थानात्, प्रस्तुतस्य तु वैसादृश्यव्यवसायात्मकत्वात् । न च वैसादृश्यावसायस्य संज्ञासंज्ञिसम्बन्धप्रतिपात्तिसाधकतमत्त्वं प्रसिद्धम् । यतः समहिषमाहेपीमण्डले क्वापि विपिनप्रदेशेऽति-च्छायायां रोमन्थायमाने नारिकेरद्वीपवासी कश्चित् केनचित् प्रेषितः तद्विपिनप्रतिष्ठगोष्ठान् महिषमानय इति, स च तज्ज्ञं तमेव पृष्टवान् किदृङ् महिष इति । तेन च गोविसदृशो महिष इत्युक्ते तद् विपिनगोष्ठं प्राप्त आप्तातिदेशवाक्यार्थस्मरणसहकारि यमेव गोभ्यो विसदृशं पशुं पश्यति तमेव महिषशब्दवाच्यतया प्रतिपद्यत इति कः प्रतिविशेषो द्वयोरपि सङकेतप्रतिपत्तौ ? तदुक्तम्, “उपमानं प्रसिद्धार्थसाधर्म्यात् साध्यसाधनम् । तद्वैधर्म्यात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनमिति ॥ लध्वी. १.१३ ॥ ) ." यदा वा यादृग् गौ तादृग् गवय इति वाक्याहितसंस्कारः प्रतिपत्ता तुरङ्गं गोविलक्षणमीक्षमाणो गवयसंज्ञासम्बन्धप्रतिषेधं विधत्ते नाऽयं गवयवाग्वाच्यः पिण्ड इति, तदा गवयसंज्ञासम्बन्धप्रतिषेधकलं किमेतत् प्रमाणं स्यात् ? तद् एवंविधसंवेदनानां संकलनात्मकतया प्रत्यभिज्ञानतैवोपपद्यते, अन्यथा तु प्रमाणता प्रीयेत । यदैव हि यादृग् गौस्तादृग् गवय इति तेन शुश्रुवे तदैवसामान्यश्चेतसि स्कुरति पिण्डे सम्बन्ध प्रतिपत्तिरभूत् । यथा पृथुबुघ्नोदराकारं वृत्तकण्ठं भावं कुम्भं विभावयेः इत्यादि आकरणात् कुम्भे ततः कान्तारविहारिणोऽस्य गवयसाक्षात्कारे प्राक्तन सामान्याकार सम्बन्धस्मरणे च स एष गवयशब्द वाच्य इति सङ्कलनाज्ञानरूपं प्रत्यभिज्ञानं उन्मज्जति । एवं गवि सदृशो महिष इत्याद्यपि तथारोपत्वात् प्रत्यभिज्ञानमेवेति स " स एवायं जिनदत्तः" इति तूर्ध्वतासामान्योदाहरणम् । आदि शब्दात् " स एवायं वह्निरनुमीयते मया, ' स एवानेनाप्यर्थः कथ्यते । इत्यादि स्मरणसचिवानुमानाऽऽगमादिजन्यम् । तस्माद् दीर्घं, ह्रस्वम्, अणु महद् नेदीयो' दवीयोवेदम्, दूरादयं तिग्मस्तनूनपात्, सुरभीदं चन्दनमित्यादि च सङ्कलनमात्रोदाहरणं “ मन्तव्यम्” । (रत्नाकरावतारिका ३.६. उपरि ) मीमांसकोऽपि 'अनेन सदृशं गौः' इत्यनधिगतं गवि प्रमाणमाचक्षाणो सादृश्यमवस्यदुपमानं स "अनेन महिषेण विसदृशः गौः” इत्यनधिगतमहिषवैसदृश्यव्यवसायकस्य प्रमाणान्तरताप्रसङ्गेन । वैसादृश्यमित्यभावप्रमाणपरिच्छेद्यमेवैतदिति चेत्; वैसादृश्यमावः सादृश्यमितीदमपि तत्परिच्छेद्यमेव किं न स्यात् ? यदि वैसादृश्याभावः सादृश्यं स्यात्, “स गौः सदृशो गवयेन" इति विधिमुखेन नाल्लिखेदिति चेत्, तदितरत्रापि तुल्यम्" ॥ ( रत्नाकरावतारिका - ३.६. उपरि ) एवं नैयायिकसम्मतमुपमानप्रमाणं, मीमांसकसम्मतमुपमानप्रमाणं च न स्वतन्त्रतया प्रमाणत्वेन स्थातुं

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157