Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 129
________________ SAMBODHI वैदिकन्यायदर्शनस्य, पूर्वमीमांसादर्शनस्य, वेदान्तदर्शनस्यचोपमानप्रमाणस्य प्रत्यभिज्ञानरूपे परोक्षेज्ञानात्मके प्रमाणेऽन्तर्भावं कुर्वन्ति सूत्रकारा वृत्तिकाराश्च । एवं जैनप्रमाणमीमांसायामुपमानप्रमाणस्य स्वातन्त्र्येणोपपादनात्मकं, प्रस्थापनात्कं निरूपणं नास्तीतिसर्वथाऽऽआकलनीयं सुधीभिरिति दिक् । 122 K. V. MEHTA हेमचन्द्राचार्येण प्रमाणमीमांसायां प्रथमाऽध्याये प्रस्तावनायामेव प्रतिज्ञातं स्वोपज्ञवृत्त्यां, यत् “एवं परोक्षस्योपमानस्य प्रत्यभिज्ञाने, अर्थापत्तेरनुमानेऽन्तर्भावोऽभिधास्यते” ॥ ( हेमचन्द्रः : प्र.मी. १.१. १२ उपरि, स्वोपज्ञवृत्तिः) ॥ उपमानप्रमाणस्य प्रत्यभिज्ञानेऽन्तर्भावनप्रक्रियां वादिदेवसूरिप्रोक्तां रत्नप्रभसूरिविशदीकृतां च तावत् प्रथमं प्रस्तूयते सूत्रकारवृत्तिकारवचनसन्दर्भेण । प्रत्यभिज्ञानलक्षणं तावत् सूत्रकारः सू अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ प्र.न.त. ३.५ ॥ उपर्युक्तं प्रत्यभिज्ञानलक्षणं सूत्रकारप्रोक्तं रत्नप्रभाचार्यः स्वस्य रत्नाकरावतारिकाऽभिधायां टीकायामधोलिखितरीत्या विरादीकरोति । यथा अनुभवश्च प्रमाणार्पितः प्रतीतिः स्मृतिश्चानन्तरोक्तैव, ते हेतुर्यस्येति कारणोपदेशः । तिर्यक्सामान्यं च गवादिषु गोत्वादि स्वरूपसदृशपरिणामात्मकम् । ऊर्ध्वतासामान्यं च परापरविवर्त व्यापिमृत्स्नादि द्रव्यं एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धर्मस्तोमस्य स तिर्यगूर्ध्वतासामान्यादिर्गोचरो यस्येति विषयाख्यानम् । सङ्कलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमात्मा स्वभावो यस्येति स्वरूपनिरूपणम् ॥ (प्र.न.त. ३.५ उपरि रत्नाकराव ) ॥ - एवमत्र सूत्रकारप्रोक्तं प्रत्यभिज्ञानसंज्ञकं प्रमाणं लध्वीटीकायां रत्नप्रभाचार्येण त्रिधा विभज्य विशदीकृतं विभाति । तत्र प्रत्यभिज्ञानस्य कारणं, अनुभवः स्मृतिश्चेत्युक्तम् । गोपिण्डादिषु गोत्वरूपं तिर्यक्सामान्यं, घटादिद्रव्याणां कपालकपालिकादिपूर्वापरपर्यायेषु व्याप्तं मृदादिद्रव्यरूपमूर्ध्वतासामान्यं चात्र प्रत्यभिज्ञानस्य विषयत्वरूपेण व्याख्यातम् । प्रत्यभिज्ञानस्य स्वरूपमत्र सङ्कलनत्वेनक्तिमिति । विवक्षितधर्माणां पूर्वापरत्वेन द्रव्येषु एकत्र मीलनं संकलनत्वेनात्राऽभिधीयते । - स प्रत्यभिज्ञानस्योदाहरणानि प्रस्तौति सूत्रकारः । यथा “ तज्जातीय एवायं गोपिण्ड; गोसदृशो गवयः, एवाऽयं जिनदत्त इत्यादि ॥ प्र.न.त. ३.६ ॥ उपर्युक्तेषु प्रत्यभिज्ञानस्योदाहरणे प्रथमोदाहरणं तिर्यक्सामान्यस्योदाहरणामितिवृत्तिकारो निर्दिशति । द्वितीयमपि तिर्यक्सामान्यस्यैव निदर्शनं वर्तते, किन्तु तत् “गोसदृशो गवयः” इत्योदाहरणं नैयायिक - कदाग्रहनिग्रहार्थमुक्तमितिवृत्तिकाराः कथयन्ति । " स एवायं जिनदत्तः” इत्युदाहरणं वैदिकदर्शनान्तर्गते न्यायादिदर्शने निरूपितस्य प्रत्यभिज्ञानारूपस्य ज्ञानस्योदाहरणसदृशं वर्तते । तद्यथा :- " स एवाऽयं देवदत" इति । वैदिकदर्शनान्तर्गते न्यायदर्शने इदं प्रथमतयोपमानप्रमाणस्य निरूपणा, पृथक् प्रमाणत्वेन समुपलभ्यते । तदुपमानप्रमाणस्य स्वतन्त्रविभावनामपलाप्य तमुपमानप्रमाणस्य प्रत्यभिज्ञानप्रमाणेऽन्तर्भावंकर्तुं कामयमानो

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157