Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 127
________________ SAMBODHI 120 K. V. MEHTA वा समाम्नातो भगवता वादिदेव-सूरिणा पूज्यपादेन हेमचन्द्रसूरिणा चेत्यत्र जैनप्रमाणमीमांसायामुपमानप्रमाणत्वेन स्वीकृत्य तादृशस्योपमान-प्रमाणस्य विभावना तावद् वादिदेवसूरिप्रोक्ता हेमचन्द्राचार्यसूरिप्रोक्ताऽत्यन्तेन संक्षेपेणात्रप्रस्तूयते ॥ __ हेमचन्द्राचार्यस्तु,प्रमाणमीमांसायाम् “अथप्रमाणमीमांसा" १.१.१॥इत्यनेनसूत्रेणप्रमाणमीमांसामारभते। स्वोपज्ञवृत्त्यां हेमचन्द्राचार्यःप्रमाणस्य सामान्यलक्षणमाहेत्युक्त्वा, “सम्यगर्थ-निर्णयः प्रमाणम्"॥१.१.२॥इत्येनेन सूत्रेणप्रमाणस्य सामान्यलक्षणमभिदधाति। ___स्वोपज्ञवृत्त्यां प्रमाणसामान्यलक्षणप्रवाचकस्य वाक्यस्य पदानां लक्षणघटकीभूतानां पदकृत्यं लक्ष्यलक्षणात्मकं प्रतिपाद्यलक्षणार्थमुपस्थापयति । तद्यथा :- “प्रमाणमितिलक्ष्यनिर्देशः । शेष लक्षणम् । प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थः" अयं वृत्तिसन्दर्भः स्वयमेव निगदव्याख्यनत्वात् न तदिह प्रतन्यते। ___ एवं लक्षणार्थं व्युत्पाद्य ज्ञानात्मकं प्रमाणं तस्य विशेषलक्षणात्मना विभजते तत्रभवान् हेमचन्द्राचार्यः। “प्रत्यक्षं परोक्षंच"॥ १.१.१०॥स्वोपज्ञवृत्तिरूपे भाष्ये, इन्द्रियजमानसात्मसंवेदनयोगिज्ञानानां चतुर्णां प्रत्यक्षेण प्रमात्मकेन प्रमाणेन संग्रहं करोति । स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षेण संग्रहमभिजानीते । तद्यथा “तत्र यथा इन्द्रियजमानसात्मसंवेदनयोगिज्ञानानां प्रत्यक्षेण सङग्रहस्तथा स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षेण सङग्रहः" ॥ १.१. १० उपरि. स्वो. वृ.॥ __ प्रमाणनयतत्त्वालोके वादिदेवसूरिणाऽपि प्रायः, ज्ञानात्मकस्य प्रत्यक्षपरोक्षादिभेदप्रत्यभिज्ञादिप्रभेदभिन्नस्य प्रमाणस्य हेमचन्द्राचार्यसदृशी प्रमाणमीमांसा कृता विद्योतते, केवलं प्रत्यक्षप्रमाणमधिकृत्य तत्र हेमचन्द्रात् किञ्चित् पृथक् पर्यालोचना दरीदृश्यते । प्रमाणस्य तादृशभिन्नदर्शनसंवलितं प्रतिपादनं तावत् प्रमाणनयतत्त्वालोकस्यानेन सूत्रसन्दर्भेण, तस्य च रत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकायां टीकायां संस्थितेन निगदव्याख्यानस्वरूपेणाधोलिखितेन वाक्यसन्दर्भेण तावत् प्रस्तूयते । तद्यथा . प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥ ॥ प्र.न.तत्त्वालोकः १.१ ॥ प्रकर्षेण संशयाद्यभावस्वभावेन मीयते परिच्छिद्यते वस्तु येन तत् प्रमाणम् ॥ (प्र.न. तत्त्वा. १.१. उपरि रत्ना. ॥) “स्वपरव्यवसायिज्ञानं प्रमाणम्" ॥ प्र.न.तत्त्व. 1.2 ॥ "स्वमात्मज्ञानस्य स्वरूपं । स्वस्मादन्य अर्थ इति यावत् । तौ विशेषण यथावस्थितस्वरूपेण अवस्यति निश्चिनोतीत्येवंशीलं यत् तत् स्वरूपव्यवसायि ॥ तद्विभेदं प्रत्यक्षं परोक्षञ्च ॥ प्र.न.त. 2.1 ।। ___ अक्षमिन्द्रियं प्रतिगत मिन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः ॥ (प्र.न.त. १.२.१ उपरि, रत्नकराव. ॥) "स्पष्टं प्रत्यक्षम्" ॥ प्र.न.त. 2.2 ।। प्रबलतराज्ञानावरणवीर्यान्तराययोः क्षेपोपशमात् क्षेपाद् वा स्पष्टताविशिष्टं वैशद्यास्पदीभूतं यत तत् प्रत्यक्षं प्रत्येयम् ॥ (॥ प्र.न.त. २.२ उपरि, रत्नाकरावतारिका ।)

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157