Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 398
________________ प्रो० शिवप्रसाद भट्टाचार्यस्तु एव मनुते यत् वृन्दावनकाव्यस्य रचयिता मानाव गीतगोविन्दस्य टीकाकारो मानाश्च भिन्नौ इति । परं तु गीतगोविन्दस्य वृन्दावन काव्यस्य च कृष्णभक्तिपरत्वात् द्वयो सम्बन्धी मानाङ्क एक एव इति ज्ञायते । गीतगोविन्दटोकाकारो मानाङ्कनृप कदाऽभूत् कुत्र च राज्यमकार्षीत् इति तु निश्चप्रच नोपलभ्यते । डॉ. मिराशीमते गीतगोविन्दटीकाकारो मानाङ्क प्राचीनराष्ट्रकूटवंशस्थापको भवितु नार्हति यतः तस्य वशस्य स्थापकस्तु ईसवीयचतुर्थशताब्याममूत । कदाचित् गोतगोविन्दटीकाकारो मानाको बुन्देलखण्डनृपो मानसिंहो भवेत् । डॉ. डोलराय माकडमते तु स कदाचित् जयपुरनरेशो मानसिंहो भवेत् , परन्तु वृन्दावनवृत्ती शान्तिसूरि मानाङ्कम् उग्रसेनतनय वर्णयति । अतो य उग्रसेनतनयो मानाङ्कनृप स एवायम् ।। यावत् निश्चितप्रमाण नोपलभ्येत तावत् गानाङ्कस्य समयविषये तस्य विषये च कोऽपि निर्णयो ग्रहीतु न शक्यते । अधुना अस्माक ज्ञानाधारेण तु एतावदेवोक्त्वा सन्तोषो मान्य यत स एकादशबिस्तशताब्दीत प्राक् भवितव्य इति । मानाको गीनगोविन्दटीकाया कात प्रसूत्राणि उल्लेखयति अत. कोऽपि एवं कल्पते यत् स मानाङ्क पश्चिमभारते वङ्गदेशे वा यत्र कातन्त्रप्रचार आसीत् तत्रत्यो भवेत् । अथ च वङ्गदेशीयग्रन्थकारोल्लिखितत्वात् स वडीयो भवेदित्यपि सम्भवति । अस्य मेघाभ्युदयकाव्यस्योपरि जैनमुनिकृत टीकास्य वर्तते । तत्रैका वृत्ति घटकर्यरादिकाव्यचतुष्टयस्य टीकाकारेण पूर्णतल्लगच्छसम्बन्धिवर्धमानाचार्थस्वपदस्थापितश्रीशान्तिसूरिविरचिता या अत्र प्रकाशिता वर्तते । अपरा च मुग्धावबोधनाम्नी अस्य काव्यस्य टीका वृद्धगच्छस्थरत्नप्रभसूरिशिष्येण लक्ष्मीनिवासेन (वि. स. १४५८) अकारि । अनयोः टीकयोस्त्र प्रन्ये शान्तिसूरिकृता वृत्ति प्रकाश्यते अत. तस्य कर्तुः कश्चित्परिचयो दीयते । श्रीशान्तिसूरि वर्धमानाचार्यस्य पट्टशिष्य पूर्णतल्लगच्छीय चन्द्रकुलीनश्च इति न्यायवार्तिकवृत्ते विचारकलिकानाम्न्या प्रशस्तित. तथा तिलकमञ्जरीटिप्पनप्रशस्तितोऽवगम्यते ।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416