Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 410
________________ श्रीमानाककृतम् सुरपतिधनुरुच्चैः पान्थमापीतरक्तं सततमिह विधत्ते चिन्तयाऽपीतरक्तम् । जलदवति विलोक्य त्वजन्तीः खे बलाकाः न हि पतति वियोगिन्याशु दुःखेऽबला का ॥२८॥ मुर० । सुरपतिधनुरिन्द्रचाप विधत्ते करोति । कम् ? पान्थं पथिकम् । कीदशम् ? इतरक्तम् नष्टरुधिरम् । कयाऽपि ? चिन्तयाऽपि । कथम् ' सततं निरन्तरम् । क्व । इह अस्मिन् काले । कीदृशम् धनु । उच्चैः उन्नतम् । तथा [आ]पीतरक्तम् पिझलारुणम् । कीदृक्षे काले जलदवति मेघयुक्ते । वर्षाकाले इत्यर्थ । तथा काऽबला स्त्री न पतति हि स्फुटम् कथभूता : वियोगिनी विरहिणी । क्व ? दुःखे क्लेशे । कथम् ? आशु शीघ्रम् । अपि तु सर्वाऽपि पतति दुखं प्रामोति इत्यर्थ । कि कृत्वा : विलोक्य दृष्ट्वा । का ? बलाका: शुक्लपक्षिणी । किं कुर्वती. १ त्वङ्गती: गच्छन्तीः । क्व खे गगने ॥ मालिनी ॥२८॥ जीयते घनपङ्क्तथा सौदामनीलतया शिखी । विनाधते च नीलाब्जदामनीलतया शिखी ॥२९॥ जीयते ।जीयते अभिभूयते । कया धनपतया मेघवृन्देन । कया कृत्वा ? सौदामनीलतया विद्युत्प्रतानेन विथुद्विस्तारेण । कोऽसौ शिखी वह्निः । तथा विनाधते भवशब्यते च । कोऽसो : शिखो मयूर' । कया कृत्वा : नोलाब्जदामनोलतया । नीलोत्पलमालाकृष्णत्वेन । कृष्णमेघपक्तिं दृष्ट्वा मयुरोऽत्यर्थं नदतीत्यर्थ । 'श्लोक ॥२९॥ जलवदवनिपीठं मेघधाराप्रपाता सकलमपि विधत्ते नो विभाति प्रपाऽतः। अपरतिरमलाम्भश्चातके याचमाने भवति पथिकनाया संस्थिता या च माने ॥३०॥ जल० । मेघधाराप्रपातः घनोदकदण्डप्रवाह. सकलमपि सर्वमपि अवनिपीठं भूतल विधचे करोति । कीदृशम् । जलवत् जलयुक्तम् । अतोऽस्मात् हेतोः । नो विभाति नैव शोभते । काऽसौ ? प्रपा पानीयशाला । जलकार्यस्य सिद्धत्वात् । तथा सा पथिकजाया [पान्थ]भार्याऽपरतिः प्रीतिरहिता भवति । क्व सति ? चातके सति । किं कुर्वाणे याचमाने । किम् तद् ! अमलाम्भः स्वच्छजलम् । का जाया ? या स्थिता आरूढा । क्व ' माने अहकारे । मानिनीत्यर्थ. । चःसमुच्चये। मालिनी ॥३०॥ भुजगरिपुकुलानि प्रोक्तकेकाननानि कुसुमितकुटजानां मामिके काननानि । १ अनुष्टुप् छन्द ।

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416