Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad
View full book text
________________
मेघाभ्युदयम्
१५
कम् ' पङ्कजपरागं पद्मरेणुम् । नलेन पद्मविनाशात् । तथा शिखिनां मयूराणां विनादो विविधकेकारवः स्त्रीणां कान्तानां हृदयं मनो विहन्ति नानाप्रकारम् [अ]धीरयति । च' समुच्चये । तथा अदः एतत्तोयम् अनलताम् अभित्वं याति गच्छति । कथम् ' विनाऽन्तरेण । काम् दयिताम् । विरहितत्वात् जलम् व्मग्निरिव भवति । वसन्ततिलकाछन्दः ॥२४॥
1
सहेच्छति युवा वल्लभया कुलमनारतं
गर्जदाकर्ण्य मेघानां भयाकुळमना रतम् ॥२५॥
सह । युवा तरुणी वल्लभया प्रियया सह साक रतं सुरतम् इच्छति वाछति । कथम् ' अनारतं निरन्तरम् । कथंभूत' सन् भयाकुलमना भयेन भीतेन त्रासेनाकुलं विचाराक्षम मन' चित्त यस्य स । किं कृत्वा ? आकर्ण्य श्रुत्वा । किं तत् - कुलं वृन्दम् । किं कुर्वत् गर्जत् । केषाम् ' घनानां मेघानाम् । 'लोकः ॥२५॥ पतति हुरधस्तान्निर्झराम्भो नगेभ्यः स्वनवदुरुशिरोभिर्ज्योतिरासन्नगेभ्यः ।
हरति नवघनोऽयं शर्म हंसावलीनां
जनयति च कदम्बः पुष्पितोऽसावलीनाम् ॥ २६ ॥
1
2
पत । [ पतति ] वहति । कथम् अधस्तात् । किं तत् निर्झराम्भो निर्झर - जलम् | केभ्य नगेभ्यः पर्वतेभ्यः । कीदृशम् स्वनवत् सशब्दम् । कीदृशेभ्यः १ ज्योतिरासन्नगेभ्यः तथा ज्योतिषामा सन्नं गच्छन्ति इति ज्योतिरासन्नगास्तेभ्यः नक्षत्रनिकटगामिभ्यः । कैः कृत्वा ' उरुशिरोभिः उच्चशिखरै' । इरति नाशयति । कोऽसौ 2 वन नूतनमेषः । किं तत् ' शर्म सुखम् । कासाम् 'हंसावलीनाम् चक्राङ्गपङ्क्तीनाम् । तथा जनयति च उत्पादयति च । किं तत् ' शर्म सुखम् । कोऽसौ ' कदम्बः । कीदृशः पुष्पितः प्रफुल्लः । केषाम् अलीनाम् भ्रमराणाम् । मधुदानात् । मालिनीच्छन्द' ॥२६॥ वहन्तुग्रो घनः श्यामळतया ताडितानकम् ।
करोति पथिकान शोकलतया ताडितानळम् ॥२७॥
वहन् । यतो घनः मेघः करोति । कान् पथिकान् । कीदृशान् ' ताडितान् हतान् पीडितान् । कथम् ' अलम् अत्यर्थम् । कया ' शोकळतया शोक एव लता प्रतानो दीर्घत्वात् शोकलता तया । कीदृशो घन : उग्रो भयानक । कया ' श्यामलतया कृष्णत्वेन । कुर्वन् वहन् बिभ्रत् । कम् । ताडितानलम् वैद्युताग्निम् । 'श्लोकः ॥२७॥
१ अनुष्टुप् छन्द ।

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416