Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 413
________________ चन्द्रा० ॥ धनो मेघश्चन्द्रादित्यौ सोमरवी स्थगयति आच्छादयति कीदृशौ विश्वदीपौ जगत्प्रदीपौ । प्रकाशत्वात् । कीदृशो घनः अनेक बहवो मेघ इत्यर्थ । तथा नद्याः सरित. तीर्थे द्वितीयनदीमेलापके घट्टे वा को न स्नाति ? - शुचीभवति । कीदृशे विपुलपयसि प्रचुरजले । तथा पावने पवित्रीकरणे । सूर्योऽपि स्नातीत्यर्थ । तथा मीनकेतुः कामः सरोपः सह रोपैर्बाणैर्वर्तते यः। बाणसहिते भवति । बाण गृह्णातीत्यर्थ । किं कर्तुम् । हन्तुं विनाशयितुम् । कथम् । तूर्ण शीघ्रम् । कान् । पथिकान् । किं कुर्वत. पश्यतोऽवलोकयतः । किं तत् । सत्सरः शोभनतडागम् । किं कुर्वत् । दधत् धारयत् । का ! अपः जलानि । कीदृशी' । अभिनवा नूतना । कथम् दधत् ! आ कूलान्तात् तटपर्यन्त यावत् मन्दाक्रान्ता ॥३६॥ दृष्ट्वा धनं नभसि दीपभवालिकाल का मुखतीष्टविरहे नहि बालिकाऽलम् । श्रुत्वा रुतानि कुटजेषु शिलीमुखानां पान्थो वशं व्रजति कामशिलीमुखानाम् ॥३७॥ दृष्ट्वा । हि व्यक्त का च बालिका अलम् अत्यर्थ न मुखति न मूर्च्छति । अपि तु सर्वाऽपि मुह्यतीत्यर्थः । किं कृत्वा . दृष्ट्वा अवलोक्य । कम् । घन मेघम् । कीदृशम् । दीपभवालिकालं दीपभव कज्जलम् मलयो भ्रमरास्तद्वत्कालं कृष्णम् । क नभसि खे । तथा पान्थः पथिको वशम् आयत व्रजति गच्छति । केषाम् । कामशिलीमुखानां मनोभवबाणानाम् । किं कृत्वा ! श्रुत्वा आकर्ण्य । कानि । रुतानि शब्दान् । केषाम् ! शिलीमुखानां भ्रमराणाम् । केषु । कुटजेषु कुटजपुष्पेषु । वसन्ततिलकाच्छन्द ॥३७॥ विद्युल्लता लसति काश्चनसन्निभारं धाम्नो वहन्ति घनवन्ति न भानि भारम् । उच्चैरसत्यविरत जलदोऽस्तवारि रस्मिन्प्रयातु -समये प्रिय ! यस्तवारिः ॥३८॥ विधु विद्यल्लता तडिदवल्ली लसति क्रीडति । कथम् । अरे शीघ्रम् । कीशी कानसभिभा सुवर्णवर्णा । तथा भानि नक्षत्राणि न वहन्ति न विचति । कम् ' भारम् भार एव भारस्त भारम् । कस्य धाम्ना तेजसः । कीदृशानि ।

Loading...

Page Navigation
1 ... 411 412 413 414 415 416