Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 411
________________ ७ मेघाभ्युदयकाष्यम् वियति च धनपङ्क्तीस्तभास्वत्तमीशाः स्वयुवतिविरहाता द्रष्टुमत्यन्तमीशाः ॥३१॥ भुज । के द्रष्टुमीशाः समर्था । न केऽपीत्यर्थ इति सम्बन्धः । कथम् । अत्यन्तमतिशयेन । हे मामिके ! सखे ! कानि द्रष्टुम् । भुजगरिघुकुलानि मयूरवृन्दानि । कीदृशानि प्रोक्तकेकाननानि प्रोक्ता उच्चरिता केकाध्वनि/स्तानि, तादृश्याननानि मुखानि येषा तानि । तथा काननानि द्रष्टु के समर्था ? केषाम् । कुसुमितकुटजानां पुष्पितकुटजानाम् । तथा धनपती मेघराजीः | क्व' वियति खे । कीदृशी । अस्तभास्वत्तमीशः । प्रस्तौ लुप्तौ भास्वत्तमीशी सूर्याचन्द्रमसौ यामिस्ता । यतः कीदृशा. स्वयुवतिविरहाता स्वकीयकान्तावियोगपीडिताः । स्वस्त्रीविरहे सर्वमेवाग्निरिव भवति कामहेतुत्वात् । मालिनी ॥३१॥ नवमम्बु कदम्बरजशबलं निपतत्प्रसमीक्ष्य रतीशषकम् । विरहार्तमनाः पथिको नगतः परितापवर्श पथि को न गतः ॥३२॥ नव० । कः पथिकोऽध्वगः पथि मार्गे परितापवशं सन्तापाधीनता न गतो न प्राप्त. १ अपि तु सर्वोऽपि प्राप्त इत्यर्थः । कीदृश पथिकः विरहार्तमानाः वियोगपीडितचित्तः। किं कृत्वा प्रसमीक्ष्य विलोक्य । किं तद् अम्बु जलम् । कीदृशम् । नवं नूतनम् । किं कुर्वत् । निपतद् वहत् । कस्मात् । नगतः पर्वतात् । किंभूतम् ? कदम्बरजाशबलम् कदम्बपरागकर्बुरितम् । तथा रतीशवलं कामसैन्यम् । यदा रतीशस्य कामस्य बलं सामर्थ्यम् भवति यस्मात् तथोक्तम् । यद्वा बलहेतुत्वाद बलं रतीशस्य बलं रतीशबलम् । तोटकच्छन्दः ॥३२॥ वीक्ष्य तडिल्लतिका समानां मेघततिं च तमालसमानाम् । शीघ्रमनाहितसङ्गविरामा कान्तमुपैति न सं गवि रामा ॥३॥ वीक्ष्य । का रामा श्री कान्तं प्रियम् न शीघ्रम् [सम्] उपैति । समीपे न गच्छति । अपि तु गच्छति । क्व सति गवि जले सति । कीदृशी सती अनाहितसङ्गविरामा अनाहितोऽकृतः सङ्गविरामः सम्बन्धविरतिर्यया सा । किं कृत्वा वीक्ष्य दृष्ट्वा । काम् । तडिल्लतिकाम् विद्युबल्लीम् । किं कुर्वाणाम् । समानाम् क्रोडन्तीम् । तथा मेघवति च मेघराजिं च वीक्ष्य । कीदृशीम् ! तमालसमानां तमालतरुतुल्यां कृष्णामित्यर्थः ॥ दोधक छन्दः ॥३३॥

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416