SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ मेघाभ्युदयम् १५ कम् ' पङ्कजपरागं पद्मरेणुम् । नलेन पद्मविनाशात् । तथा शिखिनां मयूराणां विनादो विविधकेकारवः स्त्रीणां कान्तानां हृदयं मनो विहन्ति नानाप्रकारम् [अ]धीरयति । च' समुच्चये । तथा अदः एतत्तोयम् अनलताम् अभित्वं याति गच्छति । कथम् ' विनाऽन्तरेण । काम् दयिताम् । विरहितत्वात् जलम् व्मग्निरिव भवति । वसन्ततिलकाछन्दः ॥२४॥ 1 सहेच्छति युवा वल्लभया कुलमनारतं गर्जदाकर्ण्य मेघानां भयाकुळमना रतम् ॥२५॥ सह । युवा तरुणी वल्लभया प्रियया सह साक रतं सुरतम् इच्छति वाछति । कथम् ' अनारतं निरन्तरम् । कथंभूत' सन् भयाकुलमना भयेन भीतेन त्रासेनाकुलं विचाराक्षम मन' चित्त यस्य स । किं कृत्वा ? आकर्ण्य श्रुत्वा । किं तत् - कुलं वृन्दम् । किं कुर्वत् गर्जत् । केषाम् ' घनानां मेघानाम् । 'लोकः ॥२५॥ पतति हुरधस्तान्निर्झराम्भो नगेभ्यः स्वनवदुरुशिरोभिर्ज्योतिरासन्नगेभ्यः । हरति नवघनोऽयं शर्म हंसावलीनां जनयति च कदम्बः पुष्पितोऽसावलीनाम् ॥ २६ ॥ 1 2 पत । [ पतति ] वहति । कथम् अधस्तात् । किं तत् निर्झराम्भो निर्झर - जलम् | केभ्य नगेभ्यः पर्वतेभ्यः । कीदृशम् स्वनवत् सशब्दम् । कीदृशेभ्यः १ ज्योतिरासन्नगेभ्यः तथा ज्योतिषामा सन्नं गच्छन्ति इति ज्योतिरासन्नगास्तेभ्यः नक्षत्रनिकटगामिभ्यः । कैः कृत्वा ' उरुशिरोभिः उच्चशिखरै' । इरति नाशयति । कोऽसौ 2 वन नूतनमेषः । किं तत् ' शर्म सुखम् । कासाम् 'हंसावलीनाम् चक्राङ्गपङ्क्तीनाम् । तथा जनयति च उत्पादयति च । किं तत् ' शर्म सुखम् । कोऽसौ ' कदम्बः । कीदृशः पुष्पितः प्रफुल्लः । केषाम् अलीनाम् भ्रमराणाम् । मधुदानात् । मालिनीच्छन्द' ॥२६॥ वहन्तुग्रो घनः श्यामळतया ताडितानकम् । करोति पथिकान शोकलतया ताडितानळम् ॥२७॥ वहन् । यतो घनः मेघः करोति । कान् पथिकान् । कीदृशान् ' ताडितान् हतान् पीडितान् । कथम् ' अलम् अत्यर्थम् । कया ' शोकळतया शोक एव लता प्रतानो दीर्घत्वात् शोकलता तया । कीदृशो घन : उग्रो भयानक । कया ' श्यामलतया कृष्णत्वेन । कुर्वन् वहन् बिभ्रत् । कम् । ताडितानलम् वैद्युताग्निम् । 'श्लोकः ॥२७॥ १ अनुष्टुप् छन्द ।
SR No.520751
Book TitleSambodhi 1972 Vol 01
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy