Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 408
________________ प्रोमानाककृतम् तडि । दिश आशा धमध्वजं वहिं परिभवन्ति विजयन्ते । काभिः । तडिद्वलयकान्तिभिः विद्युन्मण्डलदीप्तिभिः । तथा पान्थः पथिक. को नापास्यति ? न] निराकरोति ? अपि तु सर्वोऽपि तिरस्करोति । कम् । परिश्रमं [दुखदम् । कथंभूतम् । अध्वजम् पथि भवम् । केन । स्मरमुखेन कामसौख्येन । किं कृत्वा ? अवाप्य प्राप्य । काम् ४ वधू भार्याम् । कीदृशीम् । प्रियतरां [मती]व वल्लभाम् । कथम् अपास्यति । द्रुतं शीघ्रम् । क्व सति ? पयोधरे मेघे सति । किं कुर्वति' प्रगर्जति शब्दायमाने । कीदृश पान्थ । पान्थोनकः पथिकहीन. सन् । यथा कः पान्थो नापास्यति परिश्रमम् अवजम् स्मर चिन्तय है। सुखेन पान्थोनकः पान्थान् पथिकान् ऊनयति परिजहाति स तथोक्त पथिकपरित्यक्त इत्यर्थः । मुखेन अक्लेशेन ॥पृथ्वीच्छन्द ॥२१॥ ज्योतिश्चक्रमेति न व्यक्ति दिनमितमन्धकारिताम् । दधदमलतडित्रिशूले परिस्फुरत्यन्धकारिताम् ॥२२॥ ज्योतिः । ज्योतिश्चक्रं नक्षत्रमण्डल न व्यक्ति प्रकाशम् एति प्रामोति । तथा दिनम् अह इतं गतम् । काम् । अन्धकारिताम् अन्धकार विद्यते यत्र तदन्धकारि तस्य भावस्ताम् तम सम्बन्धातमित्यर्थ । किं कुर्वन् । दधत् धारयन् । काम् । अन्धकारिताम् अन्धकस्य दानवस्य अरि शत्रु अन्धकारि. शङ्करस्तस्य भावस्तां शङ्करत्वम् । क्व सति ? अमलतडित्रिशूले अमला निर्मला या तडिविधुत् सैव त्रिशूलं हरायुध तस्मिन् । किं कुर्वति ? परिस्फुरति ज्वलति सति ॥२२॥ पथिफस्त्री [प्र]विलोक्य नवजलधरमाकुलितालकानना । मोहमुपैति भूश्च तां सुखयति न विकचकुटजकानना ॥२३॥ पथिक० । पथिकस्त्री पथिकमार्या मोहं मूर्छाम् उपैति । किं कृत्वा । [प्राविलोक्य दृष्ट्वा । कम् । नवजलधरम् नूतनमेघम् । कीदृशी आकुलितालकानना माकुलितालक विसस्थुलकुटिलकेशम् माननं यस्या सा तथोक्ता । भूश्च पृथिवी च ता पथिकजाया न सुखयति सुखीकरोति । कीदृशी सती विकचकुटजकानना विकचानि विकसितानि कुटजानां काननानि यस्या सा ॥२३॥ धत्ते जले. सकलदेहभृतां रसायु नाप्नोति पङ्कजपरागमसौ रसायुः। स्त्रीणां विहन्ति हृदयं शिखिनां विनाद स्तापं च यात्यनलतां दयितां विनाऽदः ॥२४॥ धत्ते० ॥ असौ रसा पृथ्वी जलैनौरे सकलदेहभृतां सर्वप्राणिनाम् आयुनर्जीवित पत्चे घारयति । तथा न आमोति न लमते। का(को)ऽसौ : रसायुर्धमरः

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416