Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 407
________________ मेघाभ्युदयकाव्यम् महाप्रतिपक्ष शोक महाशत्रु असुखाराति जयन्ति ? पराभवन्ति । नैव काचिजपन्ति । क्व : प्रियतमविरहे प्रियवियोगे सति । गीत्यार्या ॥१७॥ वियतः पतति जलौघो निरुद्धगोवत्समानवप्रसर । जातं च धरापीठं सकलमुदन्वत्समानवप्रसरः ॥१८॥ विय० । जलौघो वारिनिवहो वियतो गगनात् पतति । कीदृश । विरुदो निषिद्धो गोवत्समानवानां गोपशुतर्णकमानुषाणा प्रसर प्रवृत्ति येन स । तथा धरापीठं भूतलं सकलं सर्वम् । कीदृशम् ४ जातम् सम्पन्नम् । उदन्वत्समानवप्रसरः उदन्वता समुद्रेण सह समानानि तुल्यानि वासरासि केदारतडागानि यस्मिन् तत् ॥ गीत्यार्या ॥१८॥ दिवीक्षते सूर्यमपप्रभं जनः प्रवाति चाम्भोधरजः प्रमञ्जनः । विभान्ति शैलाः शिखिना कदम्बर्द्वमेषु नित्यं क्रियते पदं पकैः ॥१९॥ दिवि० । सूर्यम् मादित्य दिवि खे जनो लोक ईक्षते पश्यति । कोहशम् । अपप्रभम् अपगता प्रभा तेजो यस्य स त दीप्तिरहितम् । तथा प्रवाति प्रवहति च । कोऽसौ प्रभञ्जनो वायु । कीदृशः १ अम्भोधरजः मेघप्रभव । समा विभान्ति शोभन्ते । के शैलाः पर्वता । के 1 कदम्बकैः वृन्दै । केषाम् शिखिनाम् । तथा द्रमेषु वृक्षेषु । क्रियते विधीयते । किं तत् । पदं स्थानम् । के पर बकोटैः । कथम् ! नित्यम् ॥ वशस्थ०॥१९॥ निपातयत्यञ्जनभारसभिभो रसन्निभो वा भुवि वारि वारिदः। निकामकालीकृतदिग्नमा नवं न भानवं भाति महो मनागपि ॥२०॥ निपा । वारिदो मेघो वारि जल निपातयति मुञ्चति । कस्याम् । पवि पृथिव्याम् । किंभूत ? अञ्जनभारसन्निभः कज्जलराशितुल्य कृष्णस्वास् । किं कुर्वन् ? रसन । क इव : इमो वा गज इव । वाशब्द इवार्थे । तथा विकाम निकामम् अत्यर्थम् कालीकृतानि कृष्णाकृतानि दिग्नमांसि आकाशनि येन सः । तथा भानवं रविज महस्तेज । कीदृशम् । नवं नूतनम् । मनामपि स्तोकमपि न भाति न शोभते । वंशस्थम् ॥२०॥ तडिद्वलयकान्तिभिः परिभवन्ति धूमध्वजम् । दिशो द्रुतमवाप्य च प्रियतसं वधूमध्वजम् । परिश्रममपास्यति स्मरमुखेन पान्थो न का प्रगति पयोधरे स्मर मुखेन पान्थोनका ॥२१॥

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416