Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 404
________________ 2 श्रीमानाङ्ककृतम् विम्बयन्तो मदभिन्नदन्तिनो वियत्यमन्दं न घना नदन्ति नो । विराजयत्यम्बुरुचिर्नवा सरः प्रतीयते नापि निशा न वासरः ॥८॥ विडं० । न नो घना मेघा नदन्ति अपि तु नदन्ति । कथम् अमन्द निरन्तरम् । क वियति आकाशे । किं कुर्वन्त. ' विडम्बयन्तोऽनुकुर्वन्त' । कान् मदभिन्नदन्तिनो मदान्धकरिण' | तथा विराजयति शोभयति । काऽसौ अम्बुरुचिः जलरुक् । कीदृशी ' नवा प्रत्यग्रा । किं विराजयति ' सरस्तडागम् । तथा प्रतीयते ज्ञायते । न निशा रजनी । नापि वासरो दिवस । एकरूपत्वात् । वंशस्थम् ॥८॥ उदूढचारुत्रिदशेन्द्रचापः समुत्सृजन्वायुवशेन चापः । हरन्न सरोजलीलां प्रमोदयत्यम्बुधरो जलीलाम् ॥९॥ उदू० । अम्बुधरो मेघ इलां मूमिं प्रमोदयति हर्षयति । कीदृश. जली | पयोयुक्तः । कथम् ' द्रुतं शीघ्रम् । तथो दूढचारुत्रि० धृतमनोज्ञशक्रधनु । किं कुर्वन् ॥ समुत्सृजन् मुञ्चन् । काः ' आपो जलानि । केन वायुवशेन वाताधीनतया । तथा इरन् गमयन् । काम् ' सरोजलीळाम् प्र [ पद्म ] विलासम् । कासु ' अप्तु नकेषु । चतुर्णाम् उपेन्द्रवजा छन्द ॥९॥ 2 भुवस्तलं भाति धनेन्द्रगोपकस् स्वरैर्मयूरः शिखरीन्द्रगोपकम् । करोति कान्ताविरहार्तमानसं व्रजन्निमज्जत्यरि गाढमानसम् ॥१०॥ ध्रु० । भ्रुवो भूमेस्तलं पृष्ठं भाति शोभते । कीदृशम् घनेन्द्रगो० ॥ बना निरन्तरा इन्द्रगोपका रक्तकीटकविशेषा यस्मिन् तत् । तथा मयूरः शिखी करोति विदधाति । किं तत् ' कान्ताविरहार्तमानसम् । कान्ताया' दयितायाः विरो वियोगः कान्ताविरहस्तेनार्ता. पीडितास्तेषां मानस चित्तम् । तदा कीदृशं करोति अपर्क अपगत कं सुख यस्मिन् यस्माद्वा अपकम् सुखरहितम् । कीदृशो मयूर शिखरीन्द्रगः । शिखरीन्द्रो गिरिराजस्तं गच्छतीति शिखरीन्द्रग' | पर्वतराजस्थ इत्यर्थः । कै करोति' स्वरैः कारवैः । तथा निमज्जति ब्रुडति । किं तत् ' अरि चक्रम् ।

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416