Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 12
________________ सनातनजैनग्रंथमालायांस्यार्थी शुद्धात्मस्वरूपं न भवति । तस्मिन् परमसमाधिकाले नवपदार्थमध्ये शुद्धनिश्चयनयेनैक एव शुद्धात्मा प्रद्योतते प्रकाशते प्रतीयते अनुभूयत इति । या चानुभूतिः प्रतीतिः शुद्धात्मोपलब्धिः साचैव निश्चयसम्यक्त्वमिति साचैवानुभूतिर्गुणगुणिनोनिश्चयनयेनाभेदविवक्षायां शुद्धात्मस्वरूपमिति तात्पर्य । किं च ये च प्रमाणनयनिक्षेपाः परमादितत्त्वविचारकाले सहकारिकारणभूतास्तेपि सविकल्पावस्थायामेव भूतार्थाः । परमसमाधिकाले पुनरभूतार्थास्तेषु मध्ये भूतार्थेन शुद्धजीव एक एव प्रतीयत इति नवपदार्थाधिकारगाथा गता । ततो नवाधिकारेषु मध्ये प्रथमतस्तावदष्टाविंशतिगाथापर्यंतं जीवाधिकारः कथ्यते । तथा हि-सहजानंदैकस्वभावशुद्धात्मभावनामुख्यतया जो पस्सदि अप्पाणमित्यादि सूत्रपाठक्रमेण प्रथमस्थले गाथात्रयं । तदनंतरं दृष्टांतदाष्र्टीतद्वारेण भेदाभेदरत्नत्रयभावनामुख्यतया दंसणणाणचरित्ताणि इत्यादि द्वितीयस्थले गाथात्रयं । ततः परं जीवस्याप्रतिबुद्धत्वकथनेन प्रथमगाथा, बंधमोक्षयोग्यपरिणामकथनेन द्वितीया, जीवो निश्चयेन रागादिपरिणामाणामेव कर्तेति तृतीया, चेत्येवं कम्मेणोकम्मा हि य इत्यादि तृतीयस्थले परस्परसंबंधनिरपेक्षस्वतंत्रगाथात्रयं । तदनंतरमिंधनाग्निदृष्टांतेनाप्रतिबुद्धलक्षणकथनार्थं अहमेदामित्यादि चतुर्थस्थले सूत्रत्रयं । अतः परं शुद्धात्मतत्त्वसम्यकूश्रद्धानज्ञानानुभूतिलक्षणाभदरत्नत्रयभावनाविषये योऽसावप्रतिबुद्धस्तत्प्रतिबोधनार्थ अण्णाणमोहिदमदी इत्यादि पंचमस्थले सूत्रत्रयं । अथ निश्चयरत्नत्रयलक्षणशुद्धात्मतत्त्वमजानन् देहएवात्मेति योऽसौ पूर्वपक्षं करोति तस्य स्वरूपकथनार्थ जदि जीवो इत्यादि पूर्वपक्षरूपेण गाथैका । तदनंतरं व्यवहारेण देहस्तवनं निश्चयेन शुद्धात्मस्तवनमिति नयद्वयविभागप्रतिपादनमुख्यत्वेन ववहारेण तु भासदि इत्यादि परिहारसूत्रचतुष्टयं । अथ परमोपेक्षालक्षणशुद्धात्मसंवित्तिरूपनिश्चयस्तुतिमुख्यत्वेन जो इंदिए जिणित्ता इत्यादि सूत्रत्रयं । एवं गाथाष्टकसमुदायेन षष्ठस्थलं । ततःपर निर्विकारस्वसंवेदनज्ञानमेव विषयकषायादिपरद्रव्याणां प्रत्याख्यानमिति कथनेन, णाणं सव्वे भावा इत्यादि सप्तमस्थले गाथाचतुष्टयं । तदनंतरमनंतज्ञानादिलक्षणशुद्धात्मसम्यक्श्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मकस्वसंवेदनमेव भावितात्मनः स्वरूपमित्युपसंहारमुख्यतया अहमेको खलु सुद्धो इत्यादि सूत्रमेकं । एवं दंडकान्विहायाष्टाविंशतिसूत्रैः सप्तभिरंतरस्थलैर्जीवाधिकारसमुदायपातनिका तद्यथा-अथ प्रथमगाथाया मबंधस्पृष्ठमनन्यकं नियतमविशेषमसंयुक्तं संसारावस्थायामपि शुद्धनयेन विसिनीपत्रमृत्तिकावार्द्धिसुवर्णोष्णरहितजलवत्पंचविशेषणविशिष्टं शुद्धात्मानं कथयति । आत्मख्यातिः--अमूनि हि जीवादीनि नवतत्वानि भूतार्थेनाभिगतानि सम्यग्दर्शनं संपद्यंत, एवामीषु तीर्थप्रवृत्तिनिमित्तमभूतार्थनयेन व्यपदिश्यमानेषु जीवाजीवपुण्यपापास्रवसंवरनिर्जराबंधमोक्षलक्षणेषु नवतत्वेष्वेकत्वद्योतिना भूतार्थनयेनैकत्वमुपानीय शुद्धनयत्वेन व्यवस्थापितस्यात्मनोनुभूतेरात्मख्यातिलक्षणायाः संपद्यमानत्वात्ततो विकार्यविकारकोभयं पुण्यं तथा पापं । आस्राव्यास्रावकोभयमास्रवः, संवार्यसंवारकोभयं संवरः निर्जर्यनिर्जरकोभयं निर्जरा बंध्यबंधकोभयं बंधः मोच्यमोचकोभयं मोक्षः । स्वयमेकस्य पुण्यपापास्रवसंवरनिर्जराबंधमोक्षानुपपत्तेः । तदुभयं च जीवाजीवाविति । बहिर्दृष्ट्या नवतत्त्वान्यमूनि जीवपुद्गलयोरनादिबंधपर्यायमुपेत्यैकत्वेनानुभूयमानतायां भूतार्थानि अथवैकजीवद्रव्यस्वभावमुपेत्यानुभूययानतायामभूतानि । ततोऽमीषु नवतत्त्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते । तथांतर्दृप्ट्या ज्ञायको भावो जीवो जीवस्य विकारहेतुरजीवः केवलजीवविकाराश्च पुण्यपापात्रवसंवरनिर्जराबंधमोक्षलक्षणाः । केवलाजीवविकारहेतवः पुण्यपापास्रवसंवरनिर्जराबंधमोक्षा इति । नवतत्वान्यमून्यपि जीवद्रव्यस्वभावमपोह्य स्वपरप्रत्ययैकद्रव्यपर्यायत्वेनानुभूयमानतायां भूतार्थानि अथ च सकलकालमेवास्खलंतमेकं जीवद्रव्यस्वभावमुपेत्यानुभूयमानतायामभूतार्थानि । ततोऽमीष्वपि नवतत्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते एवमसावेकत्वेन द्योतमानः शुद्धनयत्वेनानुभूयतएव । पात्वनुभूतिः सात्मख्यातिरेवात्मख्यातिस्तु सम्यग्दर्शनमेवेति समस्तमेव निरवद्यं ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 250