Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
सनातनजैनग्रंथमालायांव्यवहारोऽभूतार्थो भूतार्थो दर्शितस्तु शुद्धनयः ।
भूतार्थमाश्रितः खलु सम्यग्दृष्टिर्भवति जीवः ॥१३॥ तात्पर्यवृत्तिः-ववहारो व्यवहारनयः अभूदत्थो अभूतार्थः असत्यार्थो भवति । भूदत्यो भूतार्थः सत्यार्थः देसिदो देशितः कथितः दु पुनः कोसौ सुद्धणओ शुद्धनयः निश्चयनयः । तर्हि केन नयेन सम्यग्दृष्टिर्भवतीति चेत् भूदत्थं भूतार्थ सत्यार्थ निश्चयनयं अस्सिदो आश्रितो गतः स्थितः । खलु स्फुटं सम्मादिट्ठी हवदि जीवो सम्यग्दृष्टिर्भवति जीव इति टीकाव्याख्यानं । द्वितीयव्याख्यानेन पुनः ववहारो अभूदत्थो व्यवहारोऽभूतार्थो भूदत्थो भूतार्थश्च देसिदो देशितः कथितः । न केवलं व्यव हारो देशितः सुद्धणओ शुद्धनिश्चयनयोपि दु शब्दादयं शुद्धनिश्चयनयोपीतिव्याख्यानेन भूताभूतार्थभेदेन व्यवहारोपि द्विधा शुद्धनिश्चयाशुद्धनिश्चयभेदेन निश्चयनयोपि द्विधा इति नयचतुष्टयं । इदमत्र तात्पर्य यथा कोपि ग्राम्यजनः सकर्दमं नीरं पिवति नागरिकः पुनः विवेकीजनः कतकफलं निक्षिप्य निर्मलोदकं पिवति । तथा स्वसंवेदनरूपभेदभावनाशून्यजनो मिथ्यात्वरागादिविभावपरिणामसहितमात्मानमनुभवति सदृष्टिजनः पुनरभेदरत्नत्रयलक्षणनिर्विकल्पसमाधिबलेन कतकफलस्थानीयं निश्चयनयमाश्रित्य शुद्धात्मानमनुभवतीत्यर्थः ॥१३॥ अथ पूर्वगाथायां भणितं भूतार्थनयाश्रितो जीवः सम्यग्दृष्टिर्भवति । अत्र तु न केवलं भूतार्थो निश्चयनयो निर्विकल्पसमाधिरतानां प्रयोजनवान् भवति । किंतु निर्विकल्पसमाधिरहितानां पुनः षोडषवर्णिकासुवर्णलाभाभावे अधस्तनवर्णिकासुवर्णलाभवत्केषांचित्प्राथमिकानां कदाचित् सविकल्पावस्थायां मिथ्यात्वविषयकषायदुर्ध्यानवंचनार्थ व्यवहारनयोपि प्रयोजनवान् भवतीति प्रतिपादयति__आत्मख्याति:-व्यवहारनयोहि सर्व एवाभूतार्थत्वादभूतमर्थ प्रद्योतयति । तथा हि यथा प्रबलपंकसंवलनतिरोहितसहजैकार्थभावस्य पयसोनुभवितारः पुरुषाः पंकपयसोविवेकमकुर्वतो बहवोनर्थमेव तदनुभवंति । केचित्तु स्वकरविकीर्णकतकनिपातमात्रोपजनितपंकपयोविवेकतया स्वपुरुषाकाराविर्भावित सहजैकार्थभावत्वादर्थमेव तदनुभवति । तथा प्रबलकर्मसंवलनतिरोहितसहजैकज्ञायकभावस्यात्मनोऽनुभवितारः पुरुषा आत्मकर्मणोविवेकमकुर्वतो व्यवहारविमोहितहृदयाः प्रद्योतमानभाववैश्वरूप्यं तमनुभवंति । भूतार्थदर्शिनस्तु स्वमतिनिपातितशुद्धनयानुबोधमात्रोपजनितात्मकर्मविवेकतया स्वपुरुषाकाराविर्भावितसहजैकज्ञायकस्वभावत्वात् प्रद्योतमानैकज्ञायकभावं तमनुभवंति । तदत्र ये भूतार्थमाश्रयंति तएवं सम्यक् पश्यंत सम्यग्दृष्टयो भवंति न पुनरन्ये कतकस्थानीयत्वात् शुद्धनयस्यातः प्रत्यगात्मदर्शिभि र्व्यवहारनयो नानुसतव्यः ॥१३॥ अथ च केषांचित्कदाचित्सोपि प्रयोजनवान् । यतः
सुद्धोसुद्धादेसो णादवो परमभावदरिसीहिं । ववहारदेसिदो पुण जे दु अपरमे हिदा भावे ॥१४॥
शुद्धः शुद्धादेशो ज्ञातव्यः परमभावदर्शिभिः ।
व्यवहारदेशितः पुनर्ये त्वपरमे स्थिता भावे ॥१४॥ तात्पर्यवृत्तिः सुदो शुद्धनयः निश्चयनयः कथंभूतः सुद्धादेसो शुद्धद्रव्यस्यादेशः कथनं यत्र स भवति शुद्धादेशः । णादव्वो ज्ञातव्यः भावयितव्यः कैः परमभावदरसीहिं शुद्धात्मभावदर्शिभिः । कस्मादिति चेत् यतः षोडशवर्णिकाकार्तस्वर्णलाभवदभेदरत्नत्रयस्वरूपसमाधिकाले सप्रयोजनो भवति । निःप्रयोजनो न भवतीत्यर्थः । ववहारदेसिदो व्यवहारेण विकल्पेन भेदेन पर्यायेण दार्शितः कथित इति व्यवहारदेशितो व्यवहारनयः पुण पुनः अधस्तनवर्णिकसुवर्णलाभवत्प्रयोजनवान् भवति । केषां जे ये पुरुषोः दु पुनः अपरमे अशुद्धे असंयतसम्यग्दृष्ट्यपेक्षया श्रावकापेक्षया वा सरागसम्यग्दृष्टिलक्षणे शुभोपयोग प्रमत्ताप्रमत्तसंयतापेक्षया च भेदरत्नत्रयलक्षणे वा ठिदा स्थिताः कस्मिन् स्थिताः भावे जीव

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 250