Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 9
________________ समप्रभृतं । यश्रुतकेवलिलक्षणं । अथ जो सुदणाणमित्यादि - जो यः कर्त्ता सुदणाणं द्वादशांगद्रव्यश्रुतं सव्वं सर्वे परिपूर्ण जाणदि जानाति सुदकेवाळं व्यवहारश्रुतकेवलिनं तमाहुजिणा तं पुरुषं आहुः ब्रुवंति के ते जिनाः सर्वज्ञाः । कस्मादिति चेत् जह्मा यस्मात्कारणात् सुदणाणं द्रव्यश्रुताधारेणोत्पन्नं भावश्रुतज्ञानं आदा आत्मा भवति कथंभूतं सव्वं आत्मसंवित्तिविषयं परपरिच्छित्तिविषयं वा तह्मा तस्मात्कारणात् सुदकेवली द्रव्यश्रुतकेवली स भवतीति । अयमत्रार्थ यो भावश्रुतरूपेण स्वसंवेदनज्ञानेनं शुद्धात्मानं जाना तिस निश्चयश्रुतकेवली भवति । यस्तु स्वशुद्धात्मानं न संवेदयति न भावयति बहिर्विषयं द्रव्यश्रुतार्थं जानाति स व्यवहारश्रुतकेवली भवतीति । ननु तर्हि स्वसंवेदन ज्ञानबलेनास्मिन् कालेपि श्रुतकेवली भवति तन्न यादृशं पूर्वपुरुषाणां शुक्लध्यानरूपस्वसंवेदनज्ञानं तादृशमिदानीं नास्ति किंतु धर्म्यध्यानं योग्यमस्तीत्यर्थः । एवं निश्चयव्यवहारश्रुतकेवलिव्याख्यानरूपेण गाथाद्वयेन तृतीयस्थलं गतं ॥ ९-१० ॥ अथ गाथायाः पूर्वार्द्धेन भेदरत्नत्रय भावनामुत्तरार्द्धेनाभेद्रत्नत्रय भावनां च प्रतिपादयति आत्मख्यातिः - यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतकेवलीति तावत्परमार्थो यः श्रुतज्ञानं सर्वे जानाति स श्रुतकेवलीति व्यवहारः । तदत्र सर्वमेव तावत् ज्ञानं निरूप्यमाणं किमात्मा किमनात्मा, न तावदनात्मा समस्तस्याप्यनात्मनश्चेतनेतरपदार्थपंचतयस्य ज्ञानतादात्म्यानुपपत्तेः । ततो गत्यंतराभावात् ज्ञानमात्मेत्यायात्यतः श्रुतज्ञानमप्यात्मैव स्यात् । एवं सति यः आत्मानं जानाति स श्रुतकेवलीत्यायाति स तु परमार्थ एव । एवं ज्ञानज्ञानिनो भेदेन व्यपदिश्यता व्यवहारेणापि परमार्थमात्रमेव प्रतिपद्यते न किंचिदप्यतिरिक्तं अथ च यः श्रुतेन केवलशुद्धमात्मानं जानाति स श्रुतकेवलीति परमार्थस्य प्रतिपादयितुमशक्यत्वाद्यः श्रुतज्ञान सर्वे जानाति स श्रुतकवलीति व्यवहारः परमार्थप्रतिपादकत्वेनात्मानं प्रतिष्ठापयति ॥ ९-१० ॥ कुतो व्यवहारनयो नानुसर्त्तव्य इति चेत् णालि भावणा खलु कादव्वा दंसणे चरिते य । ते पुण तिणिवि आदा तला कुण भावणं आहे ॥११॥ ज्ञाने भावना खलु कर्त्तव्या दर्शने चारित्रे च । तानि पुनः त्रीण्यपि आत्मा तस्मात् कुरु भावना आत्मनि ॥११॥ तात्पर्यवृत्तिः–सम्यग्दर्शनज्ञानचारित्रत्रयभावना खलु स्फुटं कर्त्तव्या भवति । पुनस्त्रीण्यपि निश्चये नात्मैव यतः कारणात् तस्मात् कुरु भावनां शुद्धात्मनीति ॥ ११॥ अथ भेदाभेदरत्नत्रयभावनाफलं दर्शयति— जो आदभावणमिणं णिच्चुवजुत्तो मुणी समाचरदि । सो सव्वदुक्खमोक्खं पावदि अचिरेण काले ॥१२॥ यः आत्मभावनामिमां नित्योद्यतः मुनिः समाचरति । सः सर्वदुःखमोक्षं प्रामोत्यचिरेण कालेन ||१२|| तात्पर्यवृत्तिः– यः कर्ता आत्मभावनामिमां नित्योद्यतः सन् मुनिः तपोधनः समाचरति सम्यगाचरति भावयति स सर्वदुःखमोक्षं प्राप्नोत्यचिरेण स्तोककालेनेत्यर्थः । इति निश्चयव्यवहाररत्नत्रयभावनाभावनाफलव्याख्यानरूपेण गाथाद्वयेन चतुर्थस्थलं गतं । अथ यथा कोपि ब्राह्मणादिविशिष्टोजनो म्लेच्छप्रतिबोधनकाले एव म्लेच्छभाषां ब्रूते न च शेषकाले तथैव ज्ञानी पुरुषोंप्यज्ञानिप्रतिबोधनकाले व्यवहारमाश्रयति न च शेषकाले ॥ १२॥ कस्मादभूतार्थत्वादिति प्रकाशयति ववहारो भूदत्थो भूदत्थो देसिदो दु सुद्धणओ | भूदत्थमस्सिदो खलु सम्मादिट्ठी हवदि जीवो ॥१३॥ १- २ अतयोरात्मख्यातिर्व्याख्या नोपलब्धा ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 250