Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 11
________________ समयप्राभृतं । पदार्थे तेषामिति भावार्थः॥एवं निश्चयव्यवहारनयव्याख्यानप्रतिपादनरूपेण गाथाद्वयेन पंचमं स्थलं गतं ॥ इति चतुर्दशगाथाभिः स्थलपंचकेन पीठिका समाप्ता । ___ अथ कश्चिदासन्नभव्यः पीठिकाव्याख्यानमात्रेणैव हेयोपादेयतत्वं परिज्ञाय विशुद्धज्ञानदर्शनस्वभाव निजस्वरूपं भावयति । विस्तररुचिः पुनर्नवाभिरधिकारैः समयसारं ज्ञात्वा पश्चाद्भावनां करोति तद्यथाविस्तररुचिशिष्यं प्रति जीवादिनवपदार्थाधिकारैः समयसारव्याख्यानं क्रियते । तत्रादौ नवपदार्थाधिकारगाथाया आर्तरौद्रपरित्यागलक्षणनिर्विकल्पसामायिकस्थितानां यच्छुद्धात्मरूपस्य दर्शनमनुभवनमवलोक नमुपलब्धिः संवित्तिः प्रतीतिः ख्यातिरनुभूतिस्तदेव निश्चयनयेन निश्चयचारित्राविनाभावि निश्चयसम्यक्त्वं वीतरागसम्यक्त्वं भण्यते । तदेव च गुणगुण्यभेदरूपनिश्चयनयेन शुद्धात्मस्वरूपं भवतीत्येका पातनिका। अथवा नवपदार्था भूतार्थेन ज्ञाताः संतस्तएव भेदोपचारेण सम्यक्त्वविषयत्वाव्यवहारसम्यक्त्वानमित्तं भवंति निश्चयनयेन तु स्वकीयशुद्धपरिणाम एव सम्यक्त्वमिति द्वितीया चेति पातनिकाद्वयं मनसि धृत्वा सूत्रमिदं प्ररूपयति । ____ आत्मख्यातिः-ये खलु पर्यंतपाकोत्तीर्णजात्यकार्त्तस्वरस्थानीयपरमं भावमनुभवति तेषां प्रथमद्वितीयाद्यनेकपाकपरंपरापच्यमानकार्तस्वरानुभवस्थानीयापरमभावानुभवनशून्यत्वाच्छुद्धद्रव्यादेशितया समुद्योतितास्खलितैकस्वभावैकभावः शुद्धनय एवोपरितानेकप्रतिवर्णिकास्थानीयत्वात्परिज्ञायमानः प्रयोजनवान् । अन्ये तु प्रथमद्वितीयाद्यनेकपाकपरंपरापच्यमानकार्तस्वरस्थानीयमपरमं भावमनुभवंति तेषां पर्यतपाकोत्तीर्ण जात्यकार्तस्वरस्थानीयपरमभावानुभवनशून्यत्वादशुद्रव्यादेशितयोपदर्शितप्रतिविशिष्टेकभावानेकभावोव्यवहारनयो विचित्रवर्णमालिकास्थानीयत्वात्परिज्ञायमानस्तदात्वे प्रयोजनवान् तीर्थतीर्थफलयोरित्थमेव व्यवस्थितत्वात् । उक्तं च " जइजिणमयं पवजह तामा ववहारणिच्छए मुयह । एकेण विणा छिज्जइ तित्थं अण्णेण उण तच्छं ।" उभयनयविरोधध्वंसिनि स्यात्पदांके जिनवचसि रमंते ये स्वयं वांतमोहाः । सपदि समयसारं ते परं ज्योतिरुच्चैरनवमनयपक्षाक्षुण्णमीक्षत एव ॥४॥ व्यवहरणनयः स्याद्यद्यपि प्राक्पदव्यामिह निहितपदानां हंत हस्तावलंबः । तदपि परममर्थ चिच्चमत्कारमानं परविरहितमंतः पश्यतां नैष किंचित् ॥५॥ एकत्वे नियतस्य शुद्धनयतो व्याप्तुर्यदस्यात्मनः पूर्णज्ञानघनस्य दर्शनमिह द्रव्यांतरेभ्यः पृथक् । सम्यग्दर्शनमेतदेव नियमादात्मा च तावानयं तन्मुक्त्वा नवतत्त्वसंततिमिमामात्मायमेकोस्तु नः ॥६॥ अतः शुद्धनयायत्तं प्रत्यग्ज्योतिश्चकास्ति तत् । नवतत्त्वगतत्वेपि यदेकत्वं न मुंचति ॥७॥ भूदत्थेणाभिगदा जीवाजीवा य पुण्णपावं च । आसवसंवरणिजरबंधोमोक्खो य सम्मत्तं ॥१५॥ भूतार्थेनाभिगता जीवाजीवौ च पुण्णपापं च । आस्रवसंवरनिर्जरा बंधो मोक्षश्च सम्यक्त्वं ॥१५॥ तात्पर्यवृत्तिः- भूदत्थेण भूतार्थेन निश्चयनयेन शुद्धनयेन अभिगदा अभिगता निर्णीता निश्चिता झाताः संतः के ते जीवाजीवा य पुण्णपावं च आसवसंवरणिज्जरबंधो मोक्खो य जीवाजीव पुण्यपापास्रवसंवरनिर्जराबंधमोक्षस्वरूपा नव पदार्थाः सम्मत्तं तएवाभेदोपचोरण सम्यक्त्वविषयत्वात्कारणत्वात्सम्यक्त्वं भवति । निश्चयेन परिणाम एव सम्यक्त्वमिति । नव पदार्थाः भूतार्थेन ज्ञाताः संतः सम्यक्त्वं भवंतीत्युक्तं भवद्भिस्तत्कीदृशं भूतार्थपरिज्ञानमिति पृष्टे प्रत्युत्तरमाह । यद्यपि नव पदार्थाः तीर्थवर्तनानिमित्तं प्राथमिकशिक्षापेक्षया भूतार्था भण्यंते तथाप्यभेदरत्नत्रयलक्षणनिर्विकल्पसमाधिकाले अभूतार्था अस

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 250