Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 5
________________ नमो वीतरागाव। धर्मामृतस्थ उत्तरभागः सटीकः सागारधर्मः श्रीवर्धमानमानम्य मन्दबुद्धिप्रबुद्धये । धर्मामृतोक्तसागर-धर्मटीकां करोम्यहम् ॥ १ ॥ समर्थनादि यन्नात्र ब्रुवे. व्यासभयारक्वचित् । ... तज्ज्ञानदीपिकाख्यैत-त्पञ्जिकायां विलोक्यताम् ॥ २॥ अथ चतुर्थाध्याये सुदृग्बोधो गलवृत्त-मोहो विषयनिःस्पृहः । हिंसादेर्विरतः कााद्यतिः स्याच्छावकोंऽशत: ॥ इत्युक्तम् । अतो मध्यमङ्गलविधानपूर्वकं विनेयान्प्रति सागारधर्मामृत प्रतिपाद्यतया प्रतिजानीते अथ नत्वाऽर्हतोऽरुण-चरणान् श्रमणानपि । तद्धर्मरागिणां धर्मः सागाराणां प्रणेष्यते ॥१॥ टीका-प्रणेष्यते प्रतिपादयिष्यतेऽस्माभिः। कः, उक्तकर्मतापन्नः धर्मः एकदेशविर तिलक्षणं चारित्रम् । केषां, सागाराणां वक्ष्यमाणलक्षणानां गृहस्थानाम् । किंविशिष्टानां, तद्धर्मरागिणां तेषां श्रमणानां धर्मे सर्वविरतिरूपे चारित्रे रागिणां संहननादिदोषादकुर्वतामपि प्रीतिमताम, यतिधर्मानुरागरहितानामगारिणां देशविरतेरप्यसम्यग्रूपत्वात् । सर्वविरतिलालसः खलु देशविरतिपरिणामः । किं कृत्वा प्रणेष्यते, नत्वा शिरःप्रव्हीकरणादिना विशुद्धमनोनियोगेन च पूजयित्वा । कान्, अर्हतस्तीर्थकरपरमदेवान् । किविशिष्टान्, अक्षूणचरणान् अक्षुणं सम्पूर्ण सकलमोहप्रक्षयादाविर्भूतत्वेन नित्य निर्मलं चरणं यथाख्यातचारित्रं येषां ते अक्षुणचरणास्तान् । न केवलमहतो

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 260