Book Title: Sagar Dharm Author(s): Ashadhar Pandit Publisher: Jain Sahitya Prasarak Karyalay View full book textPage 9
________________ प्रथमोध्यायः । इत्यर्थः । किं तत् , मिथ्यात्वं । किविशिष्टं, गृहीतं परोपदेशादुपात्तमतत्त्वाभिनिवेशलक्षणं चिद्वैकृतं । केषां, अन्येषां सञ्ज्ञिपञ्चेन्द्रियाणां । तथा शल्यति बहुदुःखहेतुत्वाच्छरीरान्तःप्रविष्टकाण्डादिवदाचरति । किं सत्, मिथ्यात्वं । किमाख्यं, सांशयिकं मिथ्यात्वकर्मोदये सति ज्ञानावरणोदयविशेषवशात् किमिदं जीवादि वस्तु यथा जैनैरनेकान्तात्मकमुच्यते तथा स्यादुतस्विदन्यथेति चलिता प्रतीतिः संशयः, संशये भवं सांशयिक क्वचिदप्राप्तनिश्चयमात्मस्वरूपं । केषां तत्तथा स्यादित्याह-परेषाम् इन्द्राचार्यादीनाम् ॥ ५॥ नन्वविद्यामूलमिध्यात्वनिर्मथनसमर्थस्य सम्यक्वपरिणामस्य कतमा प्रादुर्भावनसामग्रीत्यनुयोगे सतीदमुच्यते आसमभव्यताकर्म-हानिसज्ञित्वशुद्धिभाक् । देशनाद्यस्तमिथ्यात्वो जीवः सम्यक्त्वमश्नुते ॥ ६ ॥ - टीका-अश्नुते प्राप्नोति । कोऽसौ, जीव आत्मा। किं तत्, सम्यक्त्वं तत्त्वार्थश्रद्धानं । किविशिष्टः सन्, आसन्नभव्यताकर्महानिसज्ञित्वशुद्धि भाक्, भव्यो रत्नत्रयाविर्भावयोग्यो जीवः, आसन्नः कतिपयभवपाप्यनिर्वाणपदः, आसन्नश्चासौ भव्यश्चासन्नभव्यस्तस्य भाव आसन्नभव्यता, कर्म-- हानिर्मिध्यात्वादीनां सम्यक्त्वप्रतिबन्धककर्मणां यथासम्भवमुपशमः क्षयो-' पशमः क्षयो वा, सञ्ज्ञा शिक्षा क्रियालापोपदेशग्राहित्वं सज्ञाऽस्यास्तीति सज्ञी सझिनो भावः सज्ञित्वं, मनोऽवष्टम्भत: शिक्षा-क्रियालापोपदेशवित् । । येषां ते सज्ञिनो म| वृषकीरगजादयः ॥ इति । शुद्धिविशुद्धपरिणामः, आसन्नभव्यता च कर्महानिश्च सज्ञित्वं च शुद्धिश्चेतीतरेतरयोगे द्वन्द्वे सति ताश्चतस्रो भजते सेवते ततो नापैतीति तद्भागन्तरङ्गसम्यग्दर्शनादिभावकारणसम्पन्न इत्यर्थः । पुनः किंविशिष्टः, देशनाद्यस्तमिथ्यात्वः देशना सम्यग्गुरूपदेशः सा आदिर्यस्य जातिस्मरणजिनप्रतिमादर्शनादेर्बहिरङ्गकारणकलापस्य स देशनादिः तेन अस्तं निराकृतमुपशमाद्यवस्थां नीतं मिथ्यात्वं दर्शनमोहाख्यं कर्म तद्धेतुको वा सर्वथैकान्ताभिनिवेशो यस्य स तथोक्तः॥६॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 260