Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 15
________________ प्रथमोध्यायः। श्रुतेस्तामवश्यं कुर्वाणः । अघभीः, अघात्पापात् दृष्टादृष्टापायफलात्कर्मणश्चौर्यादेर्मद्यपानादेश्च बिभ्यत् पापभीरुरित्यर्थः । एषां संक्षेपतो व्याख्याऽत्र कता। विस्तरतो धर्मामृतपञ्जिकायां ज्ञानदीपिकासंज्ञिकायां कृता, सा सर्वात वृष्टव्या ॥ ११ ॥ साम्प्रतं मन्दमतिविनेयानां सुखस्मृत्यर्थ सकलसागारधर्म सङ्ग्रहाति सम्यक्त्वममलममलान्यणुगुणशिक्षात्रतानि मरणान्ते । सल्लेखना च विधिना पूर्णः सागारधर्मोऽयम् ॥ १२॥ टीका- भवति । अयं श्रूयमाण: सागारधर्मः । किंविशिष्टः, पूर्णः समग्रः। कि किमित्याह-सम्यक्त्वं तावकिविशिष्टं, अमलं शङ्कादिदोषरहितं । तथा अणुगुणशिक्षापूर्वाणि व्रतानि अणुगुणशिक्षाव्रतानि अणुव्रतानि गुणव्रतानि शिक्षाव्रतानि च । किंविशिष्टानि अमलानि निरतिचाराणि । न केवलं निरतिचारतत्वार्थश्रद्धानपूर्वाणि निरतिचाराणुव्रतादीनि, किं तर्हि, मरणान्ते विधिना सल्लेखना चेत्ययं सम्पूर्णः श्रावकधर्मः । शेषविशेषणानां यथास्वमत्रवान्तर्भावादनुक्तसमुच्चयार्थेन चशब्देन समुच्चयनाच्च । तत्र मरणमेवान्तो मरणान्तस्तद्भवमरण, नत्वावीचिमरणं तस्य प्रतिक्षणं सर्वप्राणिषु भावात् । सल्लेखना सम्येक लाभाद्यनपेक्षत्वेन लेखना, बाह्येनाभ्यन्तरेण च तपसा कायकषायाणां कृशीकरणम् । विधिस्तु सप्तदशाध्याये वक्ष्यते । [ यत्प्रतिसमयमायुषः कर्मणो निषेकस्योदयपूर्विका निर्जरा भवति तदावीचिमरणम् ] असंयमिनोऽपि सम्यग्दृशः कर्मक्लेशापकों भवतीत्युपदेशार्थमिदमाह-- भूरेखादिसदृकषायवशगो यो विश्वदृश्वाज्ञया हेयं वैषयिकं सुखं निजमुपादेयं त्विति श्रद्दधत् । चौरो मारयितुं धृतस्तलवरेणेवाऽऽत्मनिन्दादिमान शर्माक्षं भजते रूजत्यपि परं नोत्तप्यते सोऽप्यधैः ॥ १३ ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 260