Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
सागारधर्मः।
आर्यसमितिः, आर्येषु सदाचरणैकप्राणेषु, न तु कितवधूर्तविटभट्टभण्डनटादिषु, समितिः सङ्गतिर्यस्यासौ । प्राज्ञः, ऊहापोहात्मकमतिज्ञानाति शयवान् । कृतज्ञः, कृतं परोपकृतं जानाति न निन्हुते । वैशी, इष्टेप्वर्थेप्वनासक्त्या विरुद्ध वाऽप्रवृत्त्या स्पर्शनादीन्द्रियविकारानिरोधकान्तरङ्गादिषड्वर्गनिग्रहपरश्च । शृण्वन् धर्मविधि, धमेस्याभ्युदयनिश्रेयसहेतोविधिः युक्त्यागमाभ्यां प्रतिष्ठा तं श्रण्वन् प्रत्यहमाकर्णयन् । दयालुः, दुःखितदुःखप्रहाणेच्छालक्षणां दयां शीलयन् , 'धर्मस्य मूलं दयेति'
१ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।
अथ सज्ज्ञानगोष्ठीषु पतिष्यसि पतिष्यसि ।। २ इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोऽयमनुषङ्गजं फलमिदं दशषा मम अयं सुहृदयं द्विषत्प्रयतदेशकालाविमाविति प्रतिवितर्कयन्प्रयतते बुधो नेतरः ॥ प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः। किन्नु मे पशुभिस्तुल्यं किन्नु सत्पुरुषरिति ।। ३ विधित्सुरेनं तदिहात्मवश्यं कृतज्ञतायाः समुपैहि पारम् ।
गुणैरुपेतोऽप्यखिलैः कृतघ्नः समस्तमुद्रेजयते हि लोकम् । ४ भव्यः किं कुशलं ममेति विमृशन्दुःखाभृशं भीतिवान सौख्यैषी श्रवणादिबुद्धिविभवः श्रुत्वा विचार्य स्फुटम् । धर्म शर्मकरं दयागुणमयं युक्त्यागमाभ्यां स्थित गृह्णन्धर्मकथाश्रुतावधिकृतः शास्यो निरस्ताग्रहः ॥ . प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥ श्रयतां धर्मर्वस्वं श्रुत्वा चैवावधार्यताम् ।। आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ अवृत्तिव्याधिशोकार्ता-ननुवर्तेत शक्तितः । आत्मवत्सततं पश्ये-दपि कीटपिपीलिकाः ।।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 260