Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 13
________________ प्रथमोध्यायः । षणादयः स्वपरोपकारिण आत्मधर्मास्तान् पूजयन् बहुमानप्रशंसासाहाय्यकरणादिना समुल्लासयन्, तथा पुरवो मातापितरावाचार्यश्च तानपि पूजयन् त्रिसन्ध्यप्रणामकरणादिनोपचरन्, तथा गुणैर्ज्ञानसंयमादिभिर्गुरवो महान्तो गुणगुरवस्तानपि यजन् सेवाज्ञ्जल्यासनाभ्युत्थानादिकरणगणेन मानयन्, गुणाश्च गुरवश्च गुणगुरवश्चेति विगृह्येकशेषेण गुणगुरवस्तान् । सैद्गीः, सती प्रशस्ता परावर्णवादपारुप्यादिदोषरहिता गीर्वाग्यस्यासौ सद्गीः । त्रिवेंग भजन्नन्योन्यानुगुणं, परस्परानुपघातकं त्रिवर्ग धर्मार्थकामान् भजन् सेवमानः । तदर्हगृहिणीस्थानालयः, गृहिणी कौलान्यादिगुणालङ्कृता पत्नी, स्थानं पुरग्रामादि वास्तु च, आलयो गृहं, गृहिणी च स्थानं च आलयश्च गृहिणीस्थानालया:, तदर्हा स्त्रिवर्गयोग्या गृहिणीस्थानालया यस्य सः तथोक्तः । न्हीमयः, लज्जाया निर्वृत्त इव लज्जाभूयिष्ठो वा । युक्ता हारविहारः, युक्तौ शास्त्रविहितावाहारविहारौ भोजनविचरणे यस्य सः । १ यन्मातापितरौ क्लेश सहते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥/ २ यदिच्छसि वशीकर्त्तुं जगदेकेन कर्मणा । परापवादशस्येभ्यो गां चरन्तीं निवारय ॥ परपरिभवपरिवादा-दात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभव – मनेकभवकोविदुर्मोचम् ॥ ३ यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ पादमायान्निधिं कुर्यात्पादं वित्ताय खट्वयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥ आयार्द्ध च नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥ ४ अभ्युत्थानमुपागते गृहपती तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधौ तस्योपचय स्वयं । सुते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राः पुत्रि निवेदिता: कुलवधूसिद्धांतधर्मा इमे ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 260