Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 11
________________ प्रथमोध्यायः । नाथामह इत्यर्थः । क. अत्र क्षेत्रे । कदा, अद्य अस्मिन्काले । अमुमेवार्थमुत्तरार्द्धन समर्थयते । हि यस्मादर्थे । को न स्पृहयेत् नाभिलषेत् । कस्मै, हेमाश्मलाभाय सुवर्णोपलप्राप्त्यर्थ । क सति, हेम्नि सुवर्णे । किंविशिष्टे, अलभ्ये लब्धुमशक्ये ॥ २ ॥ भद्रकस्य लक्षणमुक्त्वा तस्यैव द्रव्यतया देशनार्हत्वमाह कुधर्मस्थोऽपि सद्धर्म लघुकर्मतयाऽद्विषन् । ___ भद्रः स देश्यो द्रव्यत्वा-भाभद्रस्तद्विपर्ययात् ॥ ९॥ टीका-भण्यते । कोऽसौ, भद्रः । किं कुर्वन, मद्विषन् द्वेषविषयमकुर्वन्। कं, सद्धर्म सन् समीचीनः प्रमाणोपपनो धर्मोऽभ्युदयनिःश्रेयसोपायस्तम् । कया, लघुकर्मतया लघु अल्पं कर्म सद्धर्मद्वेषनिमित्तं मिथ्यात्वं यस्य सोयं लघुकर्मा तस्य भावस्तत्ता तया लघुकर्मतया। किंविशिष्टोऽपि, कुधर्मस्थे प्रमाणबाधिते धर्म आसक्तः; न केवलमुभयोर्मध्यस्थ इत्यपिशब्दार्थः । किं पुनरसावित्याह-देश्यः, धर्मे व्युत्पादनीयः । कोऽसौ, सभद्रः । कस्मात् , द्रव्यत्वात् अगामिसम्यक्त्वगुणयोग्यत्वात् । न पुनर्देश्यः । कौऽसौ अभद्रः कुधर्मस्थः सद्धर्म गुरुकर्मतया द्विषन् । कस्मात् , आगामिसम्यक्त्वगुणयोग्यत्वाभावात् । __इदानीमाप्तोपदेशसमम्पादितशुश्रूषादिगुणः सम्यक्वहीनोऽपि तद्वानिव सद्भूतव्यवहारभाजां प्रतिभासते इति निदर्शनेन प्रव्यक्तीकरोति शलाकयेवाप्तगिराऽऽससूत्रप्रवेशमार्गो मणिवञ्च यः स्यात् । हीनोऽपि रुच्या रुचिमत्सु तद्वद् भूयादसो सांव्यवहारिकाणाम् ।१०॥ टोका-यः पुरुषः स्यात् भवेत् । किंविशिष्टः, आप्तसूत्रप्रवेशमार्ग एव । चशब्दस्यात्रावधारणार्थस्य योजनात् । सूत्रं परमागमः, प्रवेशमार्गः शुश्रूषादिगुणः, सूत्रस्य प्रवेशमार्गोऽन्तस्तत्त्वपरिच्छेदनोपायः सूत्रप्रवेशमार्गः, आप्तः प्राप्तः सूत्रप्रवेशमार्गो येन स तथोक्तः । कया, आप्तगिरा सद्गुरुवाचा । कयेव, शलाकयेव छिद्रकरवज्रसूचिकया यथा । किंवत्, मणिवत् यथा मणिः शलाकया आप्तप्रवेशमार्गः स्यात्, आप्तः प्राप्तः सूत्रस्य तन्तोःप्रवेशमार्गः छिद्रं येन स तथोक्तः असौ भूयात् प्रतिभासेत । किंवत्, तद्वत् रुचिमानिव । केषां सांव्य

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 260