Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 6
________________ सागारधर्मः । त्वा श्रमणानपि नमस्कृत्य : श्राम्यन्ति बाह्यमाभ्यन्तरं च तपश्चरन्तीति श्रमणा आचार्योपाध्यायसाधवस्तान् । किंविशिष्टान् अक्षूणचरणान् अक्षूणं भावनाविशेषचलादनतिचार चारित्रं क्षायोपशमिकसंयमपरिणामो येषां ते तान् । कथं अथ, अथेति शब्दो मङ्गलार्थः अधिकारार्थो वा । इतः सागारधर्मोऽधिक्रियते इत्यर्थः ॥ १ ॥ २ किंलक्षणाः सागारा इत्याहअनाद्यविद्यादोषोत्थ-चतुः सञ्ज्ञाज्वरातुराः । शश्वत्स्वज्ञानविमुखाः सागारा विषयोन्मुखाः ॥ २ ॥ टीका - अत्र भवन्तीति क्रियाध्याहारः । भवन्ति । के, सागाराः अगारंगृहं सकलपरिग्रहोपलक्षणं सह अगारेण वर्तन्ते इति सागारा: । एतदेव अनाद्यविद्येत्यादि बिशेषणत्रयेण स्फुटयति- किंविशिष्टाः सागारा भवन्ति, शश्वत्स्वज्ञानविमुखाः शश्वदनवरतं स्वज्ञाने " एगो में सासदो आश णाणदंसणलक्खनो । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा " इत्यादिपरमागमप्ररूपिते स्वात्मावबोधे विमुखाः पराङ्मुखाः, तत्र मुख्यतयाऽ नुपयुक्ता इत्यर्थः । पुनः किंविशिष्टाः, विषयोन्मुखाः विषयेविष्टेषु स्रक्काभिन्यादिष्वनिष्टेषु च दुर्भोजनदुर्व्यसनादिषु उन्मुखाः रागात् द्वेषाच्च व्यापृताः उद्युक्ताः । कुत एतदिति हेतु प्रथमान्तत्वेन निर्दिशति । पुनः किंविशिष्टाः. अनाद्यविद्यादोषो चतुः सञ्ज्ञा ज्वरातुराः अविद्या अनित्याशुचिदुःखानात्मसु विपरीतख्यातिः यस्मात्पूर्वं नास्ति स आदि:, नास्त्यादिर्थस्याः साऽनादिः अनादिश्वास अविद्या च अनाद्यविद्या, सैव दोषो वातपित्तकफानां वैषम्यम्, उत्थानमुत्था उद्भूतिः, अनाद्यविद्या दोषादुत्था येषां ते अनाद्यविद्यादोषोत्थाः, सञ्ज्ञाः आहाराद्यभिलाषानुभव नसंस्काररूपाश्चतस्रः, तथा ज्वराः प्राकृतो वैकृतश्चेति द्वौ प्रत्येकं साध्योऽसाध्यश्चेति चत्वारः, सञ्ज्ञा एव ज्वरा मोहसन्तापरूनत्वात् सञ्ज्ञाज्वराः, चत्वारश्च ते सञ्ज्ञाज्वराश्च चतुःसञ्ज्ञाज्वराः, अनाद्यविद्यादोपोत्थाश्च ते चतुस्सञ्ज्ञाज्वराश्च अनाद्यविद्यादोषोत्थचतु: "

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 260