Book Title: Prem Geeta Author(s): Buddhisagar Publisher: Adhyatma Gyan Prasarak Mandal View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रस्तावना. -9=0 Acharya Shri Kailassagarsuri Gyanmandir प्रणम्य श्रीमहावीरं गुरुं च बुद्धिसागरम् । सूरीन्द्रं प्रेमगीतायाः, किश्चित्प्रास्ताविकं ब्रुवे ॥ १ ॥ इह खलु प्रविदितसिद्धान्ताऽऽगमतच्चानां त्रिगतमोहानां मोचमार्गोन्मुखवृत्तीनां परानपि तदेकलक्ष्यं दर्शयतां परहितसमुद्यतानां महात्मनां प्रवृत्तयोऽक्षयफलसाधका भवन्तीति विदितमेव सहृदयहृदयानाम् । पुरा गृहस्थधर्मसेविनोऽपि ज्ञानाश्मिकस्थितिमाचरन्तः स्वस्वाऽभीष्ट कार्योद्यता स्त्यागाश्रममनुकुर्वन्तः संसारमसारं बोधयन्तः सत्प्रवृतिं चक्रुः, आधुनिकास्तु मोहपाशेनिपतिता ऐहिक सुखाऽनुषङ्गिका लोभग्रहग्रस्ता आत्मदृष्टिपराङ्मुखाः केवलं दुःखमयं जीवनं प्रायो निर्वहन्ति, तत्कारणन्त्वज्ञानमेव विलोक्यते, अज्ञानोपहतदृष्टयोहिताहितं न पश्यन्ति, विवेकविकलानां सद्बुद्धिः कुतः सम्भवति । निर्बुद्धीनां शुभोदयः सर्वथा नैव सम्भाव्यते । अतोऽज्ञानता दूरतः परिहर्त्तव्या, यतोऽशुभकर्मणामुदयेन भवाऽटवीं परिभ्रमतोमानवानज्ञानमेव विषयेषु योजयति, कुकर्मवारिधौ निमज्जयति, दुरन्तं संसारवासं वर्धयति, कुविकल्पजालं समुत्पादयति, स्वजनेषु विरोधं प्रकटयति, दुष्कर्मनिर्माणे च तदेव हेतु:, श्रज्ञो जनो वैषयिकसुखनिमग्नोनिजात्मानमधः पातयति. जीवन्नपि स पशुप्रायो निगद्यते, तथाच - आहारनिद्राभयमैथुनं च समानमेतत्पशुभिर्नराणाम् । ज्ञानं हि तेषामधिको विशेषो - ज्ञानेन For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 82