Book Title: Pratima Shatak Granth
Author(s): Pratapvijay,
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
प्रतिमा | भवति निष्कारणं च भवति प्रणम्यवस्तुगतक्रियाहेतुकत्वात्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसंभवान्मोक्षाद्यभाव इति स्वोषज्ञ शतकम्. गाथार्थः । इत्थं चोदकेनोक्ते सत्याहाचार्य:-" कामं उभयाभावो तीए फलं अत्थि मणविसुदिओ। तीए पुण मणविसुद्धी
| वृत्तिः ॥२५॥
ए कारणं होंति पडिमाओ" ॥ व्याख्या-काममनुमतमिदं यदुतोभयाभावः सावद्येतरक्रियाभावः प्रतिमासु तथापि फलं पुण्य- श्लो.७३ लक्षणं अस्ति विद्यते मनसो विशुद्धिः मनोविशुद्धिः तस्या मनोविशुद्धः सकाशात् , तथाहि स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं न नमस्करणीयवस्तुगताक्रिया, आत्मान्तरे फलाभावात् । यद्यप्येवं किं प्रतिमाभिः ? इत्युच्यते; तस्याः पुनर्विशुद्धः कारणं निमित्तं भवति प्रतिमा, तद्द्वारेण तस्याः संभूतिदर्शनादिति गाथार्थः।। आह, एवं लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं भवत्येव, उच्यते-"जइवि अपडिमाओ जहा मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे णयपडिमामूभय अत्थि" ॥ व्याख्या-यद्यपि प्रतिमा यथा मुनीनां गुणा मुनिगुणा व्रतादयस्तेषु सङ्कल्पोऽध्यवसाय: मुनिगुणसङ्कल्पः तस्य कारणं निमित्त मुनिगुणसङ्कल्पकारणं लिङ्गं द्रव्य लिङ्गं तथापि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्तिलिङ्गे, सावद्यकर्म निरवद्यकर्म च, तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्पक्सङ्कल्पः स एव पुण्यफल:, यः पुनः सावधकर्मयुक्तपि मुनिगुणसङ्कल्प: स विपर्याससङ्कल्पः क्लेशफलश्चासौ विपर्यासरूपत्वादेव, न च प्रनिमासूभयमस्ति चेष्टारहितत्वात, ततश्च तासु जिनगुणविषयस्य संक्लेशफलस्य विपर्याससङ्कल्पस्याभावःसावद्यकर्मरहितत्वात् प्रतिमानाम् , आह, इत्थं निरवद्यकर्मरहितत्वात् , सम्यक सङ्कल्पस्यापि पुण्यफलस्याभाव एवं प्राप्त इत्युच्यते तस्य तीर्थकरगुणाध्यारोपेग प्रवृत्ते भाव इति । तथा चाह-" नियमा जिणेसु उ गुणा पडिमा उद्दिस्स जे मणे कुणइ । अगुणेय विआणंतो पासत्थे के नमउ गुणं काउं" ॥ व्याख्या-नियमादिति नियमेनावश्य- ॥२५॥

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320