SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रतिमा | भवति निष्कारणं च भवति प्रणम्यवस्तुगतक्रियाहेतुकत्वात्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसंभवान्मोक्षाद्यभाव इति स्वोषज्ञ शतकम्. गाथार्थः । इत्थं चोदकेनोक्ते सत्याहाचार्य:-" कामं उभयाभावो तीए फलं अत्थि मणविसुदिओ। तीए पुण मणविसुद्धी | वृत्तिः ॥२५॥ ए कारणं होंति पडिमाओ" ॥ व्याख्या-काममनुमतमिदं यदुतोभयाभावः सावद्येतरक्रियाभावः प्रतिमासु तथापि फलं पुण्य- श्लो.७३ लक्षणं अस्ति विद्यते मनसो विशुद्धिः मनोविशुद्धिः तस्या मनोविशुद्धः सकाशात् , तथाहि स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं न नमस्करणीयवस्तुगताक्रिया, आत्मान्तरे फलाभावात् । यद्यप्येवं किं प्रतिमाभिः ? इत्युच्यते; तस्याः पुनर्विशुद्धः कारणं निमित्तं भवति प्रतिमा, तद्द्वारेण तस्याः संभूतिदर्शनादिति गाथार्थः।। आह, एवं लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं भवत्येव, उच्यते-"जइवि अपडिमाओ जहा मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे णयपडिमामूभय अत्थि" ॥ व्याख्या-यद्यपि प्रतिमा यथा मुनीनां गुणा मुनिगुणा व्रतादयस्तेषु सङ्कल्पोऽध्यवसाय: मुनिगुणसङ्कल्पः तस्य कारणं निमित्त मुनिगुणसङ्कल्पकारणं लिङ्गं द्रव्य लिङ्गं तथापि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्तिलिङ्गे, सावद्यकर्म निरवद्यकर्म च, तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्पक्सङ्कल्पः स एव पुण्यफल:, यः पुनः सावधकर्मयुक्तपि मुनिगुणसङ्कल्प: स विपर्याससङ्कल्पः क्लेशफलश्चासौ विपर्यासरूपत्वादेव, न च प्रनिमासूभयमस्ति चेष्टारहितत्वात, ततश्च तासु जिनगुणविषयस्य संक्लेशफलस्य विपर्याससङ्कल्पस्याभावःसावद्यकर्मरहितत्वात् प्रतिमानाम् , आह, इत्थं निरवद्यकर्मरहितत्वात् , सम्यक सङ्कल्पस्यापि पुण्यफलस्याभाव एवं प्राप्त इत्युच्यते तस्य तीर्थकरगुणाध्यारोपेग प्रवृत्ते भाव इति । तथा चाह-" नियमा जिणेसु उ गुणा पडिमा उद्दिस्स जे मणे कुणइ । अगुणेय विआणंतो पासत्थे के नमउ गुणं काउं" ॥ व्याख्या-नियमादिति नियमेनावश्य- ॥२५॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy