________________
प्रतिमा शतकम्. ॥२५॥
स्वोपज्ञ वृत्तिः श्लो.७३
तया जिनेषु तीर्थकरेष्वेव तु शब्दस्यावधारणार्थत्वात गुणा ज्ञानादयः न प्रतिमासु प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् मनसि करोति चेतसि स्थापयति पुनर्नमस्करोति अतएवासौ तास शुभः पुण्यफलो जिनसङ्कल्पः सावद्यकर्मरहितत्वात् , न चायं तासु निरवद्यकर्माभावमात्राद्विपर्यायसंकल्पः, सावद्यकर्मोपेतवस्तुविषयत्वात् तस्य ततश्चोभयधिकल एवाकारमात्रतुल्ये कतिपयगुणान्विते बाध्यारोपोऽपि युक्तः, अगुणेत्वित्यादि-अगुणानेव तुशब्दस्यावधारणार्थत्वादविद्यमान गुणाने विजाननबुद्धयन् पाचस्थादीन् ' कं णमउ गुणं काउं' कं मनसि कृता गुणं नमस्करोतु तानिति स्यादेतदन्यसाधुसंबन्धिनं तेष्वध्यारोपमुखेन मनसि कृत्वा नमस्करोतु न तेषां सावधर्मयुक्ततया अध्यारोपलक्षणाविषयत्वादविषये वाध्यारोपमपि कृत्वा नमस्कुर्वतो दोषदर्शनात्, आह च-"जह विडंबगलिंगं जाणं तस्स णमओ हवइ धुवं । दोसोणिद्धंधसत्ति णाऊण वंदमाणे धुवो दोसो" ॥ व्याख्या-यथा विडंबकलिङ्गं भाण्डादिकृतं जानतो बुद्धयमानस्य नमतो नमस्कुर्वतः सतोऽस्य भवति दोषः प्रवचनहीलनादिलक्षणः निदधसं प्रवचनोपघातनिरपेक्षं पार्थस्थादिकं 'इय' एवं ज्ञात्वानगम्य “वंमाणे धुवो दोसो" वन्दति नमस्कुर्वति सति नमस्कर्तरि ध्रुवोऽवश्यं भावी दोषः आशाविराधनादिलक्षणः । पाठान्तरं वा-"णिद्धंससंपि नाऊग वंदणमाणस्स दोसोउ" इदं प्रकटार्थमेवेति गाथार्थ इति । अत्राकारमात्रतुल्ये कतिपयगुणयुक्ते वाध्यारोपोऽप्युचित इति वचनादन्यत्रेष्टसाधनत्वज्ञानाभावादाहार्यारोपोऽप्यनुपपन्न इति गच्छान्तरीयसाधावध्यारोपेणाप्यवन्यत्वं तादृशप्रतिमायां त्वारोपविषयत्वादन्यत्वमेवेत्युक्तानुमाने साधनावच्छिन्नसाध्यव्यापकमुद्भुतदोषवचमुपाधिरिति यत्किश्चिदेतत् ॥ ७३ ॥
उक्तमेव विवेचयन् वादिनो मुग्धतां दर्शयति
.
.
.
||२५||