Book Title: Pratima Shatak Granth
Author(s): Pratapvijay, 
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 307
________________ स्वोपन वृत्तिः प्रतिमा।। शिक्षितं किं कुगुरुणा विपलब्धोऽसि स्वकर्मणा वा ? सूत्रे हि-" एगचाओ पाणाइवायाओ पडिविरया जावज्जीवाए एगच्चाओ शतकम्.|| अप्पडिविरया", इत्यनृह्य-" से जहा णामए समणोवासगा भवंति"ति, श्रमणोपाप्तकगुणविधानेन श्रमणोपासकगुणवतो ॥२८३॥ विरतगुणवद् व्यापकस्यैव लाभावस्तुतः श्रमणोपासकपदेन विरताविरतपदविवरणाद् गुणस्थानविशेषावच्छिन्ने शक्तिग्रहतात्पर्याच्च, श्रमणोपासकपदाद् बुद्धिविशेषानुगतैर्गुणविशेषैरेव बोधे तु विरताविरतपदादपि व्युत्पत्तिविशेषात्तथैव बोधः, समभिरूढनयाश्रयणेन विरताविरतश्रमणोपासकपदार्थभेदस्त्वयाभ्युपगम्यते चेत्, एवं घटकुंभादिपदार्थभेदोऽपि किं नाभ्युपगम्यतेऽभ्युपगम्यत एच, परं विभाजकोपाधिभेदापयुक्तत्वेन विभागाननुकूल इति चेत्, प्रकृतेऽपि दीयतां दृष्टि:-"अकसिणपवत्तगाणं" इत्यादि महानिशीथवचनाद् द्रव्यस्तवाधिकारिणो विरताविरता न देशविरता इति चेन्महानिशीथध्वान्तविलसितमेतद्देवानुप्रियस्य, तत्र हि विशिष्यदेशविरतकृत्यमेतदानादिचतुष्कतुल्यफलं चेति व्यक्तोपदर्शितमेवाधस्तात्, यत्तु कृत्स्नसंयमविदां पुष्पायर्चनेऽनधिकारात् श्रमणोपासका अपि तदनधिकारिण इति तदधिकारित्वेनोक्ता विरताविरता भिन्ना एवेति चेत्, अहो भवान् पामरादपि पामरोऽस्ति ? यः कृत्स्नसंयमविद इत्यस्य वृत्तिकृदुक्तमर्थमपि न जानाति, कृत्स्नसंयमाश्च ते विद्वांस इत्येव हि वृत्तिकृता विवृतमिति, यदि च श्रमणोपासनमहिमलब्धकृत्स्नसंयमपरिज्ञानेन देशविरताः पुष्पाद्यर्चनेन नाघिकुर्युः, तदा देवा अपि कृतजिनादिसेवाः पुस्तकरत्नवाचनोपलब्धधर्मव्यवसायाः सम्यक्त्वोपहितनिर्मलावधिज्ञानेनागमव्यवहारिमायाः कथं तत्राधिकुयुः, अतएवाचित्तपुष्पादिभिरेव ते जिनपूजां कुर्वन्तीति चेत, अहो लुंपकमातृष्वसः केनेदं तव कर्णे मृत्रितं ? यभन्दापुष्करिणीकमलादीन्यचित्ता १ " विरताविरतगुणवत " इत्यपि क्वचित् । ॥२८॥

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320