Book Title: Pratima Shatak Granth
Author(s): Pratapvijay, 
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 320
________________ शतकम् | " अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव / विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः" // 1 // // 296 // उदयनोऽपि सर्वप्रसिद्धमीश्वरमुद्दीश्य तन्न्यायचर्चाया उपासनात्वेनैव करणीयतामाह, तदुक्तं न्यायकुसुमाअलौ-तदेवं प्रवरगोत्रचरणादिवदासंसारं प्रसिद्धानुभावे भवे भगवति किं निरूपणीयं ! तथापिन्यायचर्चेयमीशस्य मननव्यपदेशभाक उपासनैव क्रियते, श्रवणानन्तरागत, इति, यदीयं व्यवहारभक्तिस्तदा निश्चयभक्तिः का ? इत्युच्यताम् ! इत्याकाक्षायामाह-'स्वात्मईति, स्वात्मैवारामोऽत्यन्तमुखहेतुत्वानन्दनवनं यत्र तादृशः, स्वात्मानमारामयति समन्तात् क्रीडयति तादृशोवा यः समाधिः शुभोपयोगरूपः संपज्ञातः, अपश्चिमविकल्पनिर्वचनद्रव्यार्थकोपयोगजनितो लेशतोवा संप्रज्ञातो लयरूपः, तेन बाधितो बाधितानुवृपया स्थापितो भवः संसारो यैस्तादृशैस्त्वस्माभिनिश्चयनयं प्राप्तैर्दूष्यपकयोः स्थितिरपि सत्तापि नोद्वीक्ष्यते, कुतस्तत्त्रितयानुगतो वादग्रन्थ इति, ध्यानदशायां निश्चयभक्तिस्थितानामस्माकं सर्वत्र सम एव परिणामोव्युत्थाने व्यवहारभक्तौ तु परपक्षदूषणमसंभावनाविपरीतभावनानिरासायैवेति न रागद्वेषकालुष्यम्, इत्युचितवमावेदितं भवति // 97 // अथ साक्षात्स्तुतिमेवाह कतिपयैःदर्श दर्शमवापमव्ययमुदं विद्योतमाना लसद्विश्वासं प्रतिमामकेन रहित वा ते सदानन्द याम् / साधत्ते स्वरस प्रसृत्वरगुणस्थानोचितामानमविश्वा संप्रति मामके न रहित स्वान्ते सदानं दयाम् // 9 // व्याख्या-'दर्श दर्शम् ' इति-हे अकेन रहित ! सर्वदुःखविप्रमुक्त! अतएव सदानन्द! ध्वंसापतियोग्या- // 296 //

Loading...

Page Navigation
1 ... 318 319 320