Book Title: Pratima Shatak Granth
Author(s): Pratapvijay, 
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 319
________________ प्रतिमा शतकम्. ॥२९५॥ स्वोपन वृत्तिः श्लो.९६ दशपश्चायेकावयवाक्यानि, तैर्गहने गंभीरे मार्गे, स्वेच्छया स्वोत्मेक्षितेनोद्यच्छतामुधमं कुर्वतां मुग्धानां, मनीषा बुद्धिः, सुगुरोः करुणां विना नोन्मीषेत्र निराकाङ्क्षतया विश्राम्येत्, तस्मात्सद्गुरुपादपद्धे मधुपः सन् गुर्वाज्ञामात्रयी समित्यर्थः, स्वं बलं योग्यतारूपं संविदानो जानन्, परस्मैपदिनः प्रत्ययस्य रूपमिदं पराभिसन्धिमसंविदानस्येत्यत्रैवेति बोध्यं, द्रव्येण गृही, भावेन वा साधुस्तीर्थकृतां सेवां करोतु ! 'यथाधिकारं भगवद्भक्तरेव परमधर्मत्वात् ॥ ९६ ॥ एतत्सर्व प्रतिमाविषये भ्रान्तदृष्यं दूषणं, पुर इव परिस्फुरन्तं हृदयमिवानुप्रविशन्तं सर्वाङ्गीणमिवालिङ्गान्तं समापन्त्यैकतामिवोपगतं श्रीशङ्केश्वरपुराधिष्ठितं पार्श्वपरमेश्वरं संबोध्याभिमुखीकृत्यैव यत्रापि वादी संबोध्यस्तत्रा प्यार्थिकी भगवत्संबुद्धिर्मयैवं तन्मतामृतबाह्यो दृष्यत इति तत्स्तुतिरेवेयं पर्यवसन्नेति तत्रैव नयभेदमुपदर्शयतिसेयं ते व्यवहारभक्तिरुचिता शङ्केश्वराधीश ! यद् दुर्वा दिवजदूषणेन पयसा शङ्कामलक्षालनम् । स्वात्मारामसमाधिबाधितभवै स्माभिरुन्नीयते दृष्यं दूषकदूषणस्थितिरपि प्राप्तैनयं निश्चयम् ॥९७॥ व्याख्या-'सेयं ते' इति-हे शङ्केश्वराधीश ! इयं ते तव उचिता व्यवहारभक्तिः व्यवहारनयोचिता भक्तिः कृता इत्यर्थः, विधेयप्राधान्यानुरोधात स्त्रीत्वनिर्देशः, यद् दुर्वादिनां ब्रजः समूहस्तषणरूपेण पयसा नीरेण शङ्कारूपमलस्य क्षालनं व्यवहरन्ति शिष्टाः परसमयदूषणपूर्वस्वसमयस्थापनस्य भगवद्यथार्थवचनगुणस्तुत्योपासनत्वं, तदाहुः श्रीहेमसूरयः १ क्वचित्समाध्यबाधितसुखैरिति पाठः ।

Loading...

Page Navigation
1 ... 317 318 319 320