Book Title: Pratima Shatak Granth
Author(s): Pratapvijay,
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
प्रतिमा
शतकम्.
॥२९०॥
नादिक्रियास्वपि सम्यक्त्वानुगमजनितातिशयेन मुक्तिहेतुत्वोक्तेः, तदुक्तं विशिकायां - " दाणाइआउ एअम्मि चेव सुद्धा उ हुँति किरिआओ । एयाओवि हु जम्हा मोक्खफलाओ पराओ अ ॥ तथा च तत्रापि योगानामेव निश्चयतः स्वर्गहेतुत्वमवशिष्यत इति, चारित्रं शुद्धोपयोगरूपं योगेभ्यो भिन्नमित्युक्तनिश्चयविवेकोपपत्तिः, पूजादानादिकं तु न योगभिन्नमिति तदनुपपत्तिरिति . चेत्, न भावनये पूजादानादेरपीच्छाद्युपयोगरूपत्वात्, अत एव पूजादानत्वादिकं मानसप्रत्यक्षगम्यो जातिविशेष इति परेऽपि सङ्गिरन्ते, वस्तुतो योगस्थैर्यरूपं चारित्रं महाभाष्यस्वरसासिद्धमिति महता प्रबन्धेनोपपादितमध्यात्ममतपरीक्षायामस्माभिः, तथा च, स्थिरयोगरूपस्य चारित्रस्य मोक्षहेतुत्वं तदवान्तरजातीयस्य च स्वर्गहेतुत्वं वैजात्यद्वयं वा कल्पनीयं, तथ्य पूजादावपि तुल्यमिति ॥ ९३ ॥ लोकोत्तरलौकिकत्वाभ्यां धर्मपुण्यरूपत्वं तु पूजायामिष्यत एवेत्याह
या ज्ञानाद्युपकारिता विधियुता शुद्धोपयोगोज्ज्वला सा पूजा खलु धर्म एव गदिता लोकोत्तरत्वं श्रिता । श्राद्धस्यापि सुपात्रदानवदितस्त्वन्यादृशीं लौकिकीमाचार्या अपि दानभेदवदिमां जल्पन्ति पुण्याय नः ॥ ९४ ॥ व्याख्या – ' या ज्ञानादि ' इति - या ज्ञानादे: आदिना सम्यक्त्वा दिग्रहः उपकारिका पुष्टिकारिणी विधियुता विधिसहिता, तथा शुद्धोपयोगेनेमां भवजलतरणीं भगवत्पूजां दृष्ट्वा बहवः प्रतिबुध्यतां षट्कारक्षकाश्च भवत्वित्याद्या कारेणोज्ज्वला सा पूजा खलु श्रद्धानपूर्विका असंमोहपूर्विका वेति धर्म एव गदिता, यतः लोकोत्तरत्वं श्रिता, एतादृशगुणमणि
स्वोपज्ञ वृत्तिः
श्लो. ९३
-९४
॥२९०॥

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320