Book Title: Pratima Shatak Granth
Author(s): Pratapvijay,
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
प्रतिमा शतकम्.
॥२७३॥
प्रथमस्य स्थानस्य अधर्मपाक्षिकस्य पापोपादानभूतस्य विभंगो विशेषस्वरूपमिति यावत् एवमाहृतः एवमुपदर्शितः, धर्मपक्षस्त्वेवमतिदिष्टः – “अहावरे दोच्चस्स ठाणस्स धम्मपक्वस्स विभङ्गे एवमाहिज्जई, इहु खलु पाईणं वा पडीणं वा संतेगईआ मणुस्सा भवंति,तं आरिआवेगे अणारिआवेगे उच्चागोआयेगे णीआगो आवेगे कायमंतावेगे इस्समंतावेगे सुवनावेगे दुवन्नावेगे सुरूवावेगे दुरूवावेगे तेसिं चणं खेत्तवत्थूणि परिग्गहिआणि भवंति, एसो आलावगो जहापुंडरीए तहा णेयवो तेणेव अभिलावेणं जाव सबओ सच्चित्ताए पडिनिव्वुडत्तिवेमि । एस गणे आरिए केवले जाव सङ्घदुक्खप्पहीणमग्गे एगँतसम्मे साहू दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिएत्ति,” तृतीयं स्थानमधिकृत्य एवं सूत्रं प्रववृते - " अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ जे इमे भवंति,आरन्निया आवसहिआ गामणियंतिया कण्हुई रहस्सिया० जाव ते तओ विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमूयचाए पञ्चायति, ear अरिए अव जात्र असवदुक्खष्पहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिए "त्ति ॥ अत्र, व्याख्या - सांप्रतं धर्माधर्मयुक्तं तृतीयस्थानमाश्रित्याह- 'अहावरे' इत्यादि, अथापरस्तृतीयस्थानस्य मिश्रकाख्यस्य विभङ्गो विभागः स्वरूपमाख्यायते, अत्र चाधर्मपक्षेणयुक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राह भूधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारां प्राणातिपातादिनिवृर्त्ति विदधति तथाप्यायशुद्धत्वादभवे पित्तोदये सति शर्करामिश्रक्षीरपानवदू परप्रदेश वृष्टिवद्विवक्षितार्थासाधकत्वान्निरर्थकतामापद्यते, तथा मिथ्यात्वानुभावात् मिश्रपक्षोऽप्यधर्मपक्ष एवावगन्तव्य इत्येतदेव दर्शयितुमाह - 'जे इमे भवंति' इत्यादि - ये इमेऽनन्तरमुच्यमानाः अरण्ये चरन्तीत्यारण्यिकाः कन्दमूलफलाशिनस्तापसादयो, ये चावसथिका आवसथो गृहं तेन चरन्तीत्यावसथिका गृहिणः, ते च ॥ २७३ ॥
स्वोपज्ञ वृत्तिः
श्लो. ९१

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320