Book Title: Pratima Shatak Granth
Author(s): Pratapvijay, 
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 289
________________ प्रतिमा शतकम. ॥२६॥ वृत्तिः मिश्रणातयोविरोधादेवेति दत्तो मिश्रपक्षजलाअलिः शुद्धाशुद्धविषयत्वं च योगस्य व्यापारानुबन्धिविषयतानयेन स्वतो योगस्य स्वोपज्ञ निर्विषयत्वादिति स्मर्त्तव्यं ॥ ८८॥ . निश्चयतस्तु शुद्धाशुद्धयोगो नास्त्येवेत्याह श्लो.८८ -८९ भावे द्रव्यतया द्विधा परिणतिः प्रस्पन्दरूपा स्मृता योगास्तत्र तृतीयराश्यकथनादायेषु नोमिश्रता। नैवान्त्येष्वपि निश्चयादिति विषोद्गारः कथं ते भ्रमो निष्पीता किमु न क्षमाश्रमणगीः सद्भाष्य - सिन्धोः सुधा ॥ ८९ ॥ व्याख्या-'भावे ' इत्यादि-परिगतिर्मनोवाकाययोगनिबन्धनाध्यवसायरूपं भावकरणं, परिणतिर्मनोवाक्कायद्रव्योपष्टभजनिताया बाह्य क्रियायाः परिस्पन्दस्तल्लक्षणायोगा भावद्रव्यतया द्विधा स्मृताः, तत्रायेषु भावयोगेष नो नैव मिश्रता भवति, कस्मात् ? तृतीयराशेरकथनात्, शुभान्यशुभानीति द्विविधान्येवाध्यवसायस्थानान्युक्तानि न तु तृतीयोऽपि राशिरिति, अन्त्येषु द्रव्ययोगेष्वपि निश्चयान्नैव मिश्रता, तन्मते द्रव्ययोगानामपि मिश्राणामभावात् , तत्तदंशप्राधान्येशुभाशुभान्यतरस्यैव पर्यवसानानिश्चयाङ्गव्यवहारेणापि तथा व्यवहरणात्, अत एवाशोकप्रधानं वनं अशोकवनमिति विवक्षया न मिश्रभाषापत्तिः, कथं तर्हि श्रतभावभाषायां तृतीयभेदस्यापरिगणनं? द्रव्यभावभाषायांतु तत्परिगणनमिति चेत् ? एकत्र निश्चयनयेन, धर्मिणोऽर्पणात, अन्यत्र तु व्यवहारनयेनेति गृहाण, सर्वत्र निश्चयनयेन धम्यपणे तु भाषाया द्वावेव भेदौ न चत्वारः, तदवदाम भाषारहस्ये- | ॥२६॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320