Book Title: Pratima Shatak Granth
Author(s): Pratapvijay, 
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 291
________________ प्रतिमा शतकम्. ॥२६७॥ तव व्याघेरेव पर्यवसन्न इति जानीहि, अत्रेयमुक्तमहाभाष्यवाणी कुमतपाशकृपाणी, प्रगल्भते - " नय साहारणरूवं कम्मं तक्कारणाभावा " । न च साधारणरूपं पुण्यपापात्मकमेकं कर्मास्ति तस्यैवंभूतस्य कर्मणः कारणाभावात् । अत्र प्रयोगः - नास्ति सङ्कीर्णोभयरूपं कर्म असंभाव्यमानैवंविधकारणत्वाद्वन्ध्यापुत्रवदिति हेतोरसिद्धतां परिहरन्नाह - “ कम्मं जोगणिमित्तं सुभोसुभो वा सचेग समयंमि । होज्ज णउ उभयरूत्रो कम्मंपि तओतयणुरूवं " ॥ ' मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतव ' इति पर्यन्ते योगाभिधानात् सर्वत्र कर्मबन्धहेतुत्वस्य योगाविनाभावात्, योगानामेव बन्धहेतुत्वमिति कर्मयोगनिमित्तमित्युच्यते, स च मनोवाक्कायात्मको योग एकस्मिन् समये शुभोऽशुभो वा भवेन्नतूभयरूपोऽतः कारणानुरूपत्वात् कार्यस्य कर्मापि तदनुरूपं शुभं पुण्यरूपं अशुभं वा पापरूपं बध्यते, नतु सङ्कीर्णस्वभावमुभयरूपमेकदैव बध्यत इति । प्रेरकः प्राह - " नणुमण वह काय जोगा सुभासुभावि समयम्मि दीसंति । दबंमि मीसभावो हवेज्ज नउ भावकरणंमि " ॥ ननु मनोवाक्काययोगाः शुभा अशुभाच मिश्रा इत्यर्थः, एकस्मिन् समये दृश्यन्ते तत्कथमुच्यते ? “ सुहो असुहो वा एगसमयम्मि "त्ति, तथाहि किञ्चिदविधिना दानादिकं वितरणं चिन्तयतः शुभाशुभो मनोयोगः, तथा किमप्यविधिनैव दानादिधर्ममुपदिशतः शुभाशुभो वाग्योगः, तथा किमयविधिनैव जिनपूजावन्दनादिकामचेष्टां कुर्वतः शुभाशुभः काययोगः इति । तदेतदयुक्तं, कुत इत्याह- ' दहंमी ' त्यादि, इदमुक्तं भवति - इह द्विविधो योगो द्रव्यतो भावतश्च तत्र मनोवाक्काययोगप्रवर्त्तकानि द्रव्याणि मनोवाक्कायपरिस्पन्दात्मको योगश्च द्रव्ययोगः, यस्त्वेतदुभयरूपयोगहेतुरध्यवसायः स भावयोगः, तत्र शुभाशुभरूपाणां यथोक्तचिन्तादेशनाकायचेष्टानां प्रवर्त्तके द्रव्ययोगे द्विविधेऽपि व्यवहारनयदर्शनविवक्षामात्रेण भवेदपि शुभाशुभत्वोपलक्षणो मिश्रभावः । ननु मनोवाक्कायनिबन्धनाध्यव स्वोपज्ञ वृत्तिः श्लो. ९० ||२६७॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320