Book Title: Prashnavyakarana Sutra Author(s): Rangvimal Gani, Mafatlal Zaverchand Publisher: Mukti Vimal Jain Granthmala View full book textPage 8
________________ शास्त्र प्रस्तावना प्रश्नव्याकरण ज्ञान वि० वृत्तिः ॥१॥ जीयात्सदा श्रीजिनवर्द्धमानः, सिद्धार्थभूपाऽन्वयवर्द्धमानः। मन्ये जगविघ्नमृगान् निहन्तुं, दधार योऽङ्कच्छलतो मृगेन्द्रम् ॥३॥ जयति जगद्दीपनिभ, जैनं तेजश्च बर्द्धमानकान्तिभरम् । नैच्छत् स्नेहदशादि, पात्रं नाऽधः करोति कदा ॥४॥ जीयात्सा जैनागीर्यदुदितलवमाप्य वस्तुविस्तारं । कलयन्ति ललितहृदया, भवन्ति भव्यत्वतत्त्वभृतः ॥५॥ यैर्मादृशेऽपि कठिनोपलतुल्यचित्ते, सिक्तं तथा निजकृपारसतो यदेतत् । जातं तथा नवनवाकरितं सुबोधैस्ते ज्ञानदातृगुरचोऽत्र सदा जयन्तु ॥६॥ रम्या नवांगवृत्तीः, श्रीमदभयदेवसूरिणा रचिताः । ताः सद्भिर्वांच्यमानाः, सुदृशां तत्वप्रबोधकराः ॥७॥ सम्प्रति भानुद्युतय इवाऽऽसतेऽनल्पजल्पगम्भीराः। परमवनिवेश्मसंगतपदार्थमाभाति दीपिकया ॥८॥ युग्मं ॥ मत्तो मन्दमतीनां, स्वीयाऽन्येषां परोपकाराय । विवरणमेतत्सुगम, शब्दार्थ भवतु भव्यानाम् ॥९॥ सद्भिरहं नो हास्यः, किमकारि विचेष्टितं शिशोरुचितं । आघातोऽपि हि वदने, दत्ते ताम्बूलमिव किंनो॥१०॥ तस्मान्मदीययत्नः, फलेग्रहिः स्यात् सतामनुग्रहतः। प्रश्नव्याकरणाङ्गस्य वृत्तः [त्तौ] सुखबोधिका विषयः॥११॥ तथा इह जगति सकलोऽपि लोकः सुखाभिलाषी दुश्खपराङ्मुखश्च, सुखं च पारमार्थिकं त्रैकालिकदुःखाऽत्यन्ताभावस्तच सकलकर्मक्षयलक्षणमोक्षप्रभवं, न पुनरिन्द्रियादिप्रभवं सांसारिकमपि, तस्य स्रक्चन्दनाऽङ्गनादिरूपोपाधिकलितत्वेन दुःखानुषङ्गित्वात् कदाशामात्रविषयत्वेन मरुमरीचिकाजलतरङ्गकल्पत्वेन क्षणं दृष्टनष्टत्वेनाऽसारत्वाच्च तेन सुखार्थिना मोक्षार्थे यतितव्यं, मोक्षार्थोऽपि क्षणमोक्षमभव, पि लोकः सुखाभिमानमहतः । मनव्याPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 204