________________
शास्त्र प्रस्तावना
प्रश्नव्याकरण ज्ञान वि० वृत्तिः ॥१॥
जीयात्सदा श्रीजिनवर्द्धमानः, सिद्धार्थभूपाऽन्वयवर्द्धमानः।
मन्ये जगविघ्नमृगान् निहन्तुं, दधार योऽङ्कच्छलतो मृगेन्द्रम् ॥३॥ जयति जगद्दीपनिभ, जैनं तेजश्च बर्द्धमानकान्तिभरम् । नैच्छत् स्नेहदशादि, पात्रं नाऽधः करोति कदा ॥४॥ जीयात्सा जैनागीर्यदुदितलवमाप्य वस्तुविस्तारं । कलयन्ति ललितहृदया, भवन्ति भव्यत्वतत्त्वभृतः ॥५॥
यैर्मादृशेऽपि कठिनोपलतुल्यचित्ते, सिक्तं तथा निजकृपारसतो यदेतत् ।
जातं तथा नवनवाकरितं सुबोधैस्ते ज्ञानदातृगुरचोऽत्र सदा जयन्तु ॥६॥ रम्या नवांगवृत्तीः, श्रीमदभयदेवसूरिणा रचिताः । ताः सद्भिर्वांच्यमानाः, सुदृशां तत्वप्रबोधकराः ॥७॥ सम्प्रति भानुद्युतय इवाऽऽसतेऽनल्पजल्पगम्भीराः। परमवनिवेश्मसंगतपदार्थमाभाति दीपिकया ॥८॥ युग्मं ॥ मत्तो मन्दमतीनां, स्वीयाऽन्येषां परोपकाराय । विवरणमेतत्सुगम, शब्दार्थ भवतु भव्यानाम् ॥९॥ सद्भिरहं नो हास्यः, किमकारि विचेष्टितं शिशोरुचितं । आघातोऽपि हि वदने, दत्ते ताम्बूलमिव किंनो॥१०॥ तस्मान्मदीययत्नः, फलेग्रहिः स्यात् सतामनुग्रहतः। प्रश्नव्याकरणाङ्गस्य वृत्तः [त्तौ] सुखबोधिका विषयः॥११॥
तथा इह जगति सकलोऽपि लोकः सुखाभिलाषी दुश्खपराङ्मुखश्च, सुखं च पारमार्थिकं त्रैकालिकदुःखाऽत्यन्ताभावस्तच सकलकर्मक्षयलक्षणमोक्षप्रभवं, न पुनरिन्द्रियादिप्रभवं सांसारिकमपि, तस्य स्रक्चन्दनाऽङ्गनादिरूपोपाधिकलितत्वेन दुःखानुषङ्गित्वात् कदाशामात्रविषयत्वेन मरुमरीचिकाजलतरङ्गकल्पत्वेन क्षणं दृष्टनष्टत्वेनाऽसारत्वाच्च तेन सुखार्थिना मोक्षार्थे यतितव्यं, मोक्षार्थोऽपि
क्षणमोक्षमभव, पि लोकः सुखाभिमानमहतः । मनव्या