SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ %%15 धर्मफलत्वेन प्रधानपुरुषार्थत्वात् स तु ज्ञानाद्यासेवनयैव सिद्ध्यति ज्ञानादीनामेव तत्कारणत्वेन मोक्षमार्गत्वात् । यदुक्तं नाणं च दंसणं चेव, चरितं च तवो तहा। एस मग्गोति पन्नत्तो, जिणेहिं वरदंसी हिं ॥१॥ ज्ञानादिशुन्यस्य तु मोक्षस्यैवाऽसंभवात् कुतस्तज्जन्यसुखप्राप्तिः, न च कोऽपि मार्गमप्रतिपन्नो मार्गभ्रष्टो वा समीहितनगराऽ बाप्या तत्सुखोपभोगी स्यादिति लोकेऽपि तत्र ज्ञानादिष्वपि साक्षान्मोक्षसाधनं सम्यक् संयमानुष्ठानं तच सम्यग्ज्ञानपूर्वकमेव अतः प्रथमतो लोके लोकोत्तरेऽपि ज्ञानमेव प्रयत्नविषयीकार्यः यतः - पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही, किं वा नाही छेयपावगं ॥ १॥ तस्मात् सम्यग्ज्ञानाभावे च 'हेयोपादेयपदार्थज्ञानपरिरहितः केवलं प्राणातिपाताद्याश्रवेष्वेवाऽश्रान्तमवृत्तिभागेव स्यात् । न पुनः संयमानुष्ठानं श्रयेत् यतोऽनादिप्रवाहापाति अविरतिगर्त्तापतित्वेन जीवानां स्वतः सिद्धत्वात्, अतः सम्यक् ज्ञानाभावे चारित्रवार्ताऽपि दुरापा, सम्यक्ज्ञानमपि मतिश्रुतावधिमनः पर्यव केवलज्ञानात्पञ्चवा तेष्वपि श्रुतज्ञानस्यैव प्राधान्यं संयमे स्त्रपरोपकृतौ सापेक्षत्वात् यदुक्तं सुयनाणं महड्डियं केवलं तयणंतरं । अप्पणो सेसगाणं च, जम्हा तं पविभासगं ॥१॥ तदपि द्रव्यभावभेदेन द्विधा द्रव्यश्रुतं भावश्रुतं चेत्यादि, भूयान् विचारस्तु नंदिवृच्यादिभ्योऽवसेयः । अत्र तु श्रुतज्ञानस्यैव १ या बंधासवपुन्नपावा जीवाजीवा य हुंति विज्ञेया । संवरनिज्जरमुक्खो तिन्निवि एओ उवावेया ॥ १ ॥ जीवो संवर निज्सरमुक्खो चत्तारि हुति अरूवा । रूह वैधात्र पुत्रपात्रा मीलो हुंति अजीवो य ॥ २ ॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy