SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक रण ज्ञान वि० वृत्तिः ॥२॥ भावमङ्गलरूपत्वात् धुरिप्रकाशाई, तत्र तस्योपादानभूतं द्रव्यश्रुतं तदपि मंगलरूपं तदपि द्विविधं सूत्रार्थोभयरूपं तत्र द्वादशाङ्गया अर्थभाषकोऽनेव, तथाविधाऽर्हद्वचनेन गणधराणां तथाविधकर्म क्षयोपशमस्य प्रादुर्भावाद, सूत्ररचना तु अभिलाप्यानामर्थानां वाचकशब्दसन्दर्भ रूपा गणधरायत्तैव यतः- “ अत्थं भासइ अरहा सुत्तं गुंथति गणहरां निउणमिति" परं क्षायोपशमवैचित्र्यात् गद्यपद्यरचनाऽपि प्रतिगणधरं भिन्नैव, न चैवमर्थभाषणेऽपि प्रति तीर्थकर भिन्नता शङ्कनीया । सर्वेषामपि तीर्थकृतामर्थमरूपणे भेदाभावात् तन्निदानस्य केवलज्ञानस्य क्षायिकत्वेन सह वैचित्र्याऽभावात् । अतः श्रुतज्ञानस्यैव मङ्गलरूपता उक्ता ॥ तत्र प्रेक्षावतां प्रवृत्यर्थ शास्त्रस्यादौ मङ्गलादिचतुष्टयमन्वेष्टव्यम् । तत्र त्रिधा मङ्गलं कायिकं वाचिकं मानसिकं च तत्र कायिकेन शास्त्रस्याऽऽदेयतया प्रवृत्तिर्भवति । वाचिकं शिष्यशिष्यार्थे । मानसिकं निर्विघ्नतया ग्रंथसमाप्त्यर्थं निःश्रेयसाऽवाप्त्यर्थं च । तथा चाशीर्वादात्मकं वस्तुनिर्देशात्मकं नमस्कारात्मकं वा, अत्र तु श्रेयोभूतशास्त्रस्यैव मङ्गलात्मकत्वं इत्येवं मङ्गलं शिष्याणां मलबुद्धिपरिग्रहाय आदौ मध्येऽवसाने चाऽवसातव्यं । यत आदिमंगलपरिगृहीतानि शास्त्राणि निर्विघ्नतया पारगामी नि भवन्ति । मध्यमङ्गलपरिगृहीतानि शिष्यबुद्धावारोपितानि स्थिरपरिचितानि भवन्ति । अन्त्यमङ्गलपरिगृहीतानि पुनः शिष्यप्रशिष्यादि परंपरानुगामीनि स्युः । तत्र [ मा] प्रकृतशास्त्रे आदिमङ्गलं 'नमो अरिहंताणमिति' पदेन 'जंबू इ णमोत्ति' भगवदामन्त्रणेन दर्शितमेव । मध्यमंगलं प्रथमसंवरद्वारे अहिंसा भगवती वर्णने दर्शितम् । अन्त्यमंगलं तु " नायपुत्त्रेण वीरेण भगवया पयासियं" इत्यालाप केनेति बोध्यं इत्यलं विस्तरेण विस्तारार्थिना चाऽन्ये ग्रन्था विलोक्या इति शास्त्र प्रस्तावना । तत्र मङ्गलं तु दर्शितम् ॥ १ ॥ सम्बन्धस्तु वाच्यवाचकभावः कार्यकारणभावलक्षणः गुरुपर्वक्रमलक्षणो वा ॥ २ ॥ प्रयोजनं तु द्वेधा परं अपरं च तदपि मङ्गलादि चतुष्टयम् ॥ २ ॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy