________________
कर्तृश्रोतृस्वामिमकारत्वेन प्रत्येकं द्विधा, अनन्तरं परंपरं कर्तुः श्रोतुश्व, तत्र कर्तुरनन्तरप्रयोजनं सत्त्वानुग्रहबुद्धया शास्त्रं कुर्वतो महती निर्जरा तीर्थकुनामप्रभृतिपुण्यप्रकृतेर्बन्धश्च, यदुक्तं--
न भवति धर्मश्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । अवतोऽनुग्रहयुद्धथा वक्तुस्त्वेकान्ततो भवति ॥१॥ इति
परंपरं तु मोक्ष एव । श्रोतुश्चापरं प्रयोजनं यथावस्थितपदार्थावगमपूर्वकं सदुपदेशानुष्ठानप्रवृत्त्यादि उभयोरपि परं प्रयोजनं मोक्ष एव, ततः परमप्रयोजनाऽभावात् ॥३॥
अभिधेयं तु अस्य शास्त्रस्यैव प्रश्नव्याकरणेति नाम इति मङ्गलादिचतुष्टयमुक्त्वा अथ शास्त्रस्याऽभिधेयार्थमाह
श्री पार्श्वनाथाय नमः नमो अरिहंताणं । जंब-इ णमो । अण्हयसंवरविणिच्छियं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं ॥१॥
अथ प्रश्नव्याकरणाख्य दशमाङ्ग व्याख्यायते । प्रश्ना:-अङ्गष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते-अभिधीयन्ते अस्मिन्निति प्रश्नव्याकरणं, कर्तर्यनटि सिद्धं । कचित् प्रश्नव्याकरणदशा इति नाम दृश्यते, तत्र प्रश्नानां-विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशाऽध्ययनपतिबद्धा ग्रंथपद्धतयः इति एतादृशं अंगं पूर्वकालेऽभूत् । इदानीं तु आश्रवसंवरपञ्चकन्याकृतिरेव लभ्यते । पूर्वाचार्यैरेदंयुगीनपुरुषाणां तथाविधहीनहीनतरपाण्डित्यबलबुद्धिवीर्याऽपेक्षया पुष्टालम्बनमुद्दिश्य प्रश्नादिविद्यास्थाने पश्चाश्रवसंवररूपं समुत्तारितं, विशिष्ठसंयमवतां क्षयोपशमवशात् प्रश्नादिविद्यासंभवात् । ततः संयमवानेव तद्वान् अतस्तत्स्वरूप
१ प्रकृतिबं० २ अथ कोऽस्याऽभिधानस्याऽर्थः