Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 11
________________ कर्तृश्रोतृस्वामिमकारत्वेन प्रत्येकं द्विधा, अनन्तरं परंपरं कर्तुः श्रोतुश्व, तत्र कर्तुरनन्तरप्रयोजनं सत्त्वानुग्रहबुद्धया शास्त्रं कुर्वतो महती निर्जरा तीर्थकुनामप्रभृतिपुण्यप्रकृतेर्बन्धश्च, यदुक्तं-- न भवति धर्मश्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । अवतोऽनुग्रहयुद्धथा वक्तुस्त्वेकान्ततो भवति ॥१॥ इति परंपरं तु मोक्ष एव । श्रोतुश्चापरं प्रयोजनं यथावस्थितपदार्थावगमपूर्वकं सदुपदेशानुष्ठानप्रवृत्त्यादि उभयोरपि परं प्रयोजनं मोक्ष एव, ततः परमप्रयोजनाऽभावात् ॥३॥ अभिधेयं तु अस्य शास्त्रस्यैव प्रश्नव्याकरणेति नाम इति मङ्गलादिचतुष्टयमुक्त्वा अथ शास्त्रस्याऽभिधेयार्थमाह श्री पार्श्वनाथाय नमः नमो अरिहंताणं । जंब-इ णमो । अण्हयसंवरविणिच्छियं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं ॥१॥ अथ प्रश्नव्याकरणाख्य दशमाङ्ग व्याख्यायते । प्रश्ना:-अङ्गष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते-अभिधीयन्ते अस्मिन्निति प्रश्नव्याकरणं, कर्तर्यनटि सिद्धं । कचित् प्रश्नव्याकरणदशा इति नाम दृश्यते, तत्र प्रश्नानां-विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशाऽध्ययनपतिबद्धा ग्रंथपद्धतयः इति एतादृशं अंगं पूर्वकालेऽभूत् । इदानीं तु आश्रवसंवरपञ्चकन्याकृतिरेव लभ्यते । पूर्वाचार्यैरेदंयुगीनपुरुषाणां तथाविधहीनहीनतरपाण्डित्यबलबुद्धिवीर्याऽपेक्षया पुष्टालम्बनमुद्दिश्य प्रश्नादिविद्यास्थाने पश्चाश्रवसंवररूपं समुत्तारितं, विशिष्ठसंयमवतां क्षयोपशमवशात् प्रश्नादिविद्यासंभवात् । ततः संयमवानेव तद्वान् अतस्तत्स्वरूप १ प्रकृतिबं० २ अथ कोऽस्याऽभिधानस्याऽर्थः

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 204