Book Title: Prakritadhyaya
Author(s): Kramdishwar, Satyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 61
________________ संक्षिप्तसारे प्राकृताध्यायः [I. 1तत्रेदानी संपूर्ण-संस्कृत-भाषा-लक्षण समाप्य लक्षणान्तरम् आरभते समृद्धीत्यादि। (समृद्धयादेरादिरकारो आद् वा भवति लोकानुसारात् प्राकृते )। ननु सबै रेषा प्रयोक्तव्या भाषा वृद्धानुसारतो ग्रन्थशेषेणैव संस्कृतभाषालक्षणस्य शिष्टप्रयोगस्य विधानमवशेष उक्तस्तत् किमर्थ लक्षणान्तराणीत्यत* आह लोकानुसारात् प्राकृत इति । संस्कृते समृद्धिशब्दस्य केवलस्य कचिदप्यादिभूतस्याकारस्य आविधानं नास्तीति। अतः पारिशेष्यात् प्राकृत एवायं विधिद्रष्टव्यः। एतदपि लोकानुसारान् नाटकादौ महाकवि-प्रयोग-दर्शनात् प्राकृतं महाराष्ट्रदेशीयं प्रकृष्टभाषणम् । तथा च दण्डी-महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुरिति, तथा आभीरादिगिरः काव्येष्वपभ्रश इति स्थितिरिति ॥ 'सामिद्धीति समृद्धिरिति । प्रकृतेः ऋष्यादेराकृतिगणत्वाद् ऋष्यादेरिति (1. 32) भृतः स्थाने इकारः। लुक् कादियं तस्येति (II. 46) युक्तस्यादि-दकारलुक् । द्विरनादौ प्राग युक्तोऽरादिरिति (II. 105) धकारस्य द्वित्वम् । धकारद्वयवानयं शब्दः। अथवा संस्कृतवच्छेष इति वर्गस्यादिः पदान्तेऽङ्ये चेति: धकारस्य तकारः। अपदान्तेऽपि धादा वित्यादिना तस्य द इत्येवं दकारयुक्त-धकारान्तोऽयम्। भिस्सुपोरपि दीर्घश्चेति (III. 21) इकारस्य ईकारः। सोर्नित्यमिति (III. 21) सुलुक् । हसोः स्थानीयो विसर्गोऽपि सुपदेनोक्त इति । समृद्धयादिगणमाह प्रकट इत्यादि । एकादश समृद्धयादयः। एतेनैतत् प्रतिपादितं संस्कृतभाषा लक्षणसिद्धयान्येव समग्रपदानि विधेयप्राकृतपदानां प्रकृतय इति। आदौ प्राथमिकत्वेन स्वरकार्यमेव विधातुमुचितमिति स्वरकार्यमुक्तवान् ॥ ___ 1) L gives आरेभे। 2) Found in the foot-note of L. P. 16. 3) S. विधीनाम. 4) S. लक्षणान्येतानि । 5) S. प्राकृत एव। 6) This is found in S and L (PP. 16-17). 7) 'This paragraph is found only in S. 8) Vide SS. सुवन्तपाद Su. No. 128. 9) Vide ss. सन्धिपाद Su. No. 188. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140