________________
संक्षिप्तसारे प्राकृताध्यायः
[I. 1तत्रेदानी संपूर्ण-संस्कृत-भाषा-लक्षण समाप्य लक्षणान्तरम् आरभते समृद्धीत्यादि। (समृद्धयादेरादिरकारो आद् वा भवति लोकानुसारात् प्राकृते )।
ननु सबै रेषा प्रयोक्तव्या भाषा वृद्धानुसारतो ग्रन्थशेषेणैव संस्कृतभाषालक्षणस्य शिष्टप्रयोगस्य विधानमवशेष उक्तस्तत् किमर्थ लक्षणान्तराणीत्यत* आह लोकानुसारात् प्राकृत इति । संस्कृते समृद्धिशब्दस्य केवलस्य कचिदप्यादिभूतस्याकारस्य आविधानं नास्तीति। अतः पारिशेष्यात् प्राकृत एवायं विधिद्रष्टव्यः। एतदपि लोकानुसारान् नाटकादौ महाकवि-प्रयोग-दर्शनात् प्राकृतं महाराष्ट्रदेशीयं प्रकृष्टभाषणम् । तथा च दण्डी-महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुरिति, तथा आभीरादिगिरः काव्येष्वपभ्रश इति स्थितिरिति ॥
'सामिद्धीति समृद्धिरिति । प्रकृतेः ऋष्यादेराकृतिगणत्वाद् ऋष्यादेरिति (1. 32) भृतः स्थाने इकारः। लुक् कादियं तस्येति (II. 46) युक्तस्यादि-दकारलुक् । द्विरनादौ प्राग युक्तोऽरादिरिति (II. 105) धकारस्य द्वित्वम् । धकारद्वयवानयं शब्दः। अथवा संस्कृतवच्छेष इति वर्गस्यादिः पदान्तेऽङ्ये चेति: धकारस्य तकारः। अपदान्तेऽपि धादा वित्यादिना तस्य द इत्येवं दकारयुक्त-धकारान्तोऽयम्। भिस्सुपोरपि दीर्घश्चेति (III. 21) इकारस्य ईकारः। सोर्नित्यमिति (III. 21) सुलुक् । हसोः स्थानीयो विसर्गोऽपि सुपदेनोक्त इति । समृद्धयादिगणमाह प्रकट इत्यादि । एकादश समृद्धयादयः। एतेनैतत् प्रतिपादितं संस्कृतभाषा लक्षणसिद्धयान्येव समग्रपदानि विधेयप्राकृतपदानां प्रकृतय इति। आदौ प्राथमिकत्वेन स्वरकार्यमेव विधातुमुचितमिति स्वरकार्यमुक्तवान् ॥
___ 1) L gives आरेभे। 2) Found in the foot-note of L. P. 16. 3) S. विधीनाम. 4) S. लक्षणान्येतानि । 5) S. प्राकृत एव। 6) This is found in S and L (PP. 16-17). 7) 'This paragraph is found only in S. 8) Vide SS. सुवन्तपाद Su. No. 128. 9) Vide ss. सन्धिपाद Su. No. 188.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org