Book Title: Pethadkumar Charitra
Author(s): Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 231
________________ श्रुत्वा दुर्वाक्यमुच्चैर्हसति मुषति च स्वीयमानेन लोकं, द्वयर्थं गृह्णाति पण्यं बहुकमिति वदन्नर्धमेव प्रदत्ते । स्वीयान्यायेऽपि पूर्वं व्रजति नृपगृहं लेख्यके कूटकारी, मध्ये सिंहप्रतापः प्रकट मृगमुखः स्याद्वणिक् कूटप्रष्ठः ॥१५॥ प्रत्यक्षार्पितवस्तु संशयकरो गूढार्पितापह्नवं, कर्ता लाभगृहास्तिमुख्यमसकृत्पृष्टोऽति नो जल्पति । लोभित्वाज्जठरेऽपि वश्चनपरो वक्ति व्ययं स्वल्पमप्यस्वल्पं भृशभीरुषु प्रथम इत्यादिस्वरूपो वणिक् ॥ १६ ॥ धन- कण - काञ्चन- परिजन - तनुरूपाऽढ्येषु पञ्चधा लक्ष्मीः । सैव गजभूमिसहिता सप्ताङ्गा भूभृतां भवति ।।१७।। भिउडी अद्धालो अण- मुच्चा दिट्ठी पर मुहं वयणं । मोण कालविलंवो, नक्कारो छव्विहो होइ ॥ १८॥ दन्तिदन्ताविवोच्चानां गीर्निर्गत्य न चाविशेत् । कूर्भग्रीवेव नीचानां निर्गताऽपि विशेत् पुनः ॥ १९ ॥ या सुप्रवृत्तिः प्रथमं प्रवृत्ता, पाश्चात्यपापैर्न हि लुप्यते सा । शवास्थिकूटैर्निभृतं भृताऽपि, भागीरथी पुण्यतमैव लोके ॥२०॥ सन्ति नैके ऽपकीर्तिदाः । सूनुसेवक शिष्याद्याः, दुरापास्ते तु ये तात - स्वामिगुर्वादिकीर्त्तये ॥ २१ ॥ પેથડકુમાર ચરિત્ર Jain Education International For Private & Personal Use Only ૨૦૪ www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252